________________
दर्पणसहिते वैयाकरणभूषणसारे क्रियान्वयित्वमेव हि कारकान्वयितावच्छेदकमिति वक्ष्यते । तदेतदाविष्कर्तुं विवरणेन धात्वर्थक्तवत्वर्थयोः कर्मत्वकर्तृत्वं द: र्शयति "कृतवान् पार्क"इति ॥
वस्तुतस्तु प्रत्ययार्थः प्रधानमित्यस्य, यः प्रधानं स प्रत्य. यार्थ एवेति वा, यः प्रत्ययार्थः स प्रधानमेवेति वा नार्थः । अजा अश्वा छागीत्यत्र प्रत्ययार्थस्त्रीत्वस्यैव प्राधान्यापत्तेश्छाग्यादेरनापत्तेश्च । किन्तूत्सर्गोऽयम् । विशेष्यत्वादिना बोधस्तु
ननु घटेन जलमाहरेत्यत्र घटे छिद्रेतरघटत्ववत् प्रकृते किं कार. कान्वयितावच्छेदकं यदभावादनन्वयापत्तिरुद्भाव्यतेऽत आह *क्रि. यान्वयित्वमेव हीति*॥
ननु कृदर्थक क्षिप्तभावनायां पाकादीनां कर्मत्वेनान्वयसौल. भ्यानोक्तदूषणमत आह *वस्तुतस्त्विति ॥ प्रधानप्रत्ययार्थवचन. मिति सूत्रस्वरसो यः प्रधानं स प्रत्ययार्थः । तदागमे हीति न्यायश्च, यः प्रत्ययाऽर्थ इत्यर्थे मूलमिति ध्येयम् । अजेत्यादौ विशेष्याजादि. पदार्थस्य प्रत्यायार्थत्वाऽभावेन व्यभिचारस्य स्फुरत्वात् तदुपेक्ष्य द्वितीयकल्प एव व्यभिचारं दर्शयति-*अजेति* ॥ - इष्टापत्तावाह-*छाग्यादरिति(१)* ॥ स्त्रीत्वविशेषणछाग्यादेश्छा. गनिष्टस्त्रीत्वादेरिति वाऽर्थ । एकत्र विशेषणतयान्वितस्यापरत्रविशेषणतयाऽन्वये नैराकालयेण छागीमानयेत्यादौ कर्मत्वादिकारके छागी गच्छतीत्यादौ छागनिष्ठस्त्रीत्वस्य छागीपदार्थस्यायोग्यतयाs ख्यातार्थकर्तरि वाऽनन्ययापत्तेश्चेति भावः । छाग्यादेरनापत्तश्चति पाठे प्राधान्यानापत्तरित्यर्थः।
ननु सा व्युत्पत्तिरपार्थव स्यादत आह *किान्त्वति । तथाच तादृशव्युत्पत्तेः कृत्ताद्धतमात्रविषयकत्वं न प्रत्ययमात्रविषयकत्व. मिति न तबलाद् व्यापारस्याख्यातार्थत्वमिति भावः । ननु कथं तर्हि व्यापारविशेष्यको बोधोऽत आह *विशेष्यत्वादिनेति ।
(१) छाग्यादेरनन्वयापतेश्चेति पाठोदृश्यते तदभिप्रायेण व्याचष्टे. छाग्यादेरिति ।