SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ धात्वर्थनिर्णयः। म्भव इति प्रकृतिप्रत्ययार्थयोरन्वयनियमस्यैवाऽभावेन क प्राधा. न्यबोधक उक्तकार्यकारणभावः । नच, सम्बन्धमांत्रमुक्तश्च श्रुखा धात्वर्थभावयोः । तदेकांशनिवेशे तु व्यापारोऽस्या न विद्यते । इति भट्टपादोक्तरीत्या सम्बन्धसामान्येन कारकाणामन्वयः शाः । योग्यताविरहाद अन्वयमयोजकरूपयवस्य तथात्वात् । याजनकमिति झाते, का सा किंमत्याकाहोदयेन क्रियाया अपि सासाध्यरूपायाः साधकाऽऽकालया च परस्पराऽन्वयौचित्यमित्याश. येन क्रियात्वमेव हि कारकाऽन्वयिताऽवच्छेदकमिति सुवर्थनिर्णयेव. क्ष्यमाणरीत्येत्यर्थः। सम्बन्धमात्रमिति*"ज्योतिष्टोमेन यजेत"इत्यत्र यजेतेति (१)श्रुल्या धात्वाख्यातार्थयागभावनयोःसम्बन्धसामान्य(२)प्र. तिपाद्यते । तयोः क्रियाकारकमावरूपसम्बन्धविशषबोधने तु नाऽ स्याः श्रुतेः कश्चिदभिधादिरूपो व्यापारस्तद्वाचकपदाऽभावादिति तदर्थः । तथा च यजेतेत्यत्र यागसम्बन्धिभावनेति बोधो, न यागकरणकभावनेति, तद्वत्प्रकृते पाकसम्बन्धी कतति बोधः । कर्मत्वादिना तत्संसर्गकबोधे एव क्रियाया अपेक्षणादित्याशङ्कितुराशयः। फलस्य कारकत्वमाऽयोग्यत्वात्ताहशाऽन्वयबोधोऽप्यसम्भवदुक्तिक इत्याह योग्यताविरहादिति । ननु तत्पदार्थे तत्पदार्थवत्वं योग्यता,अस्ति च सा प्रकृते, पाक. प्रयोजकत्ववत्पाकसम्बन्धित्वरूपाकतुरत आह अन्वयप्रयोजकरू. पवत्वस्येति* ॥ तथाच तत्पदाथै तत्पदार्थताऽवच्छेदकावच्छिन्नत्वस्यैव योग्यत्वे जलाहरणे घटकरणत्वस्य सस्वात्तस्मिन् सुषिरघ. टस्यापि करणत्वेनाऽम्वयापत्तिः । अस्मन्मते तु सच्छिद्रेतरघटत्व. स्य जलाऽऽहरणाऽन्वयप्रयोजकत्वेन तादृशघटे तादृशाहरणान्वय. प्रयोजकत्वमिति न तदन्वयापत्तिरिति भावः ।। (१) श्लोकस्थ-श्रुतिपदम् धात्वादिश्रुतिपरम् । भावपदच . भावनापरम् । तदेतदाह-'यागभावनयोः' इति । (२) अम्विते पदशक्त्यभ्युपगमादिति भावः।
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy