________________
दर्पणसहिते वैयाकरणभूषणसारे मीमांसकोक्तं बाधक(१)मुद्धरस्तन्मतं दूषयति न वित्यादिना । नाऽसौ तिङा व्याख्यानम् । पक्ववानित्पादावनन्वयापत्तेः । अयं भावः । “प्रकृतिप्रत्ययौ सहाथ व्रतस्तयोः प्रत्ययार्थः प्र. धानम्" इत्यत्र हि विशेष्यतया प्रकृत्यर्थमकारकबोधे तदुत्तरमत्ययजन्योपस्थितिहेतुरिति कार्यकारणभावः फलितः, तथाच पक्ववानित्यत्र पाक: कर्मकारकं, क्तवतुमत्ययार्थः कर्तृकारकम् । तयोश्वारुणाधिकरणोक्तरीत्या वक्ष्यमाणाऽस्मद्रीत्या चान्वयास.
स्याऽप्युपपत्रमिति न तदाख्यातार्थत्वसाधकम् । अत एव "कथं ज्ञायते क्रियाषचनाः पच्यादयः यदेषां करोतिना सामानाधिकरण्यं, किं करोति पचति" इति भूवादिसूत्रभाष्य उक्तम् । तेन विवरणमपि धावोरेवेति स्पष्टमेव बोध्यते इति भावः । पक्ववामिति मूलमपि करोतराख्यातविवरणत्वाऽभावसाध्यतया व्याचष्टे *पक्ववानित्यादाविति । अनन्वयमेव विशदयति *अयम्भाव इत्यादि । ___*सहामिति । सम्बद्धार्थमित्यर्थः । ब्रूतः बोधयतः । तयोः प्रकृतिप्रत्ययाऽर्थयोमध्ये प्रत्ययाऽर्थः प्रत्ययवृत्तिग्रहविशेष्यः प्रधान. मिति प्रकृत्यर्थप्रकारातानिरूपितविशेष्यताशालीत्यर्थः। तादृशम्यु. त्पत्तिसिद्धिकार्यकारणभावमभिनयेन दर्शयति *विशेष्यतयेति*। प्रत्ययस्य प्रकृत्यर्थप्रकारतानिरूपितविशेष्यतासम्बन्धेन शाब्दबोधं प्रतीत्यर्थः । हेतुरित्यस्य विशेप्यतासम्बन्धेनेति शेषः।
*अरुणाधिकरणोक्तरीत्यति* । अरुणयेति पदोपात्ताऽऽरुण्यस्य प्रथमं करणत्वेनेतरक्रियायामन्ययो, नामार्थाऽन्वयस्तु पाठिंक इति तत्रोक्तम् । *वक्ष्यमाणेति । कारकत्वस्य क्रियाजनकत्वरूपत्वेन क्रि.
(१) बाधकमिति । प्रकृतिप्रत्यययोः प्रत्ययार्थस्यैव प्राधान्यमिति शायविरोधात्मकमित्यर्थः । मीमांसका हि आख्यातवाच्या भावना, भावनाविशेष्यकश्च शाद्वबोधः करोतिना धात्वर्थस्य विवरणं तु वक्तुमशक्यम् विनिगमकाभावात् , प्रत्ययार्थापेक्षया प्राधान्यापत्या प्रकृति. प्रत्ययेतिन्यायविरोधापत्तेश्चेति वदन्ति ।