________________
धात्वर्थनिर्णयः ।
कर्त्राख्यातवत, कर्त्तरि कृदित्यत एव तद्विधानलाभ, मावे वि धायकाऽनुशासनवैयर्थ्यापत्तेः तद्विरोधा (४) पत्तेश्च । अथ व्यापारोऽपि धात्वर्थ इसभ्युपेयमिति चेत्तर्हि धातुत एव सकलव्यापारलाभसम्भवेनाख्यातस्य पृथकूशक्तिकल्पने गौरवमिति । पचतीत्यस्य पाकं करोतीति विवरणात्मा करोतिर्धातोरेव व्याख्यानं=विवरणम् । अतस्तदपि नाख्यातार्थत्वसाधकमिति भावः ।
धर्थव्यापारस्य ग्रामादौ बाधान पूर्वोक्तप्रयोगापत्तिरित्यर्थः । वि. क्लित्यनुकूलघञाद्यर्थव्यापारस्य कर्त्तृतया भावनादावन्वयान पूर्वोकप्रयोगाऽनुपपत्त्यापत्तिरिति भावः ।
ननु, कर्त्तरि कृदिति विहितस्य कृतः पक्ता पाचक इत्यादौ कर्त्रर्थत्वदर्शनात्तद्विद्दित घञादीनां व्यापाराऽर्थकत्व दौलभ्या तदर्थत्वबोधनाय भाव इत्यनुशासनचारितार्थ्यमित्याशङ्कामपाकरिष्यस्तदनुगुणं दृष्टान्तमाह *कर्त्राख्यातवदिति । तथाच लःकर्मणीति विहितकर्त्राख्यातस्य त्वन्मते व्यापाराऽर्थकत्ववत्, कर्त्तरि कृदिति विहितघञादीनामपि व्यापाराऽर्थकत्वसम्भवादित्यर्थः ॥
*विरोधाऽऽपत्तेश्चेति । चो हेतौ, यतो वैयर्थ्यमतस्तद्विरोधापत्तिरित्यर्थः । उक्तिवैचित्र्यमेतेत् । यद्वा भावविहितप्रत्ययानां धात्व. र्थानुवादकत्वात् प्रयोगसाधुतामात्रार्थकत्वमिति त्वदीयसिद्धान्तविरोधापत्तेरित्यर्थः । व्याख्यानमित्यस्य विवरणम् ।*विवरणमिति।
*अतस्तदपीति* । पचतीत्यस्य पाकं करोतीति विवरणमपीत्यर्थः । अर्पना दूषयिष्यप्राणप्रकृतिप्रत्ययाविति न्यायसमुच्चयः धातोः पृथग्विवरणं तु तवाऽऽख्यातार्थसंख्याकालव्यापाराणां मध्ये व्यापारस्य कृञ संख्यादेस्तदुत्तरतिङा विवरणवद्धात्वर्थव्यापार
(४) क्वचित् 'तद्भाष्यविरोधापत्तेश्च' इति पाठः । तदात्वयर्मथःघञादेरसत्व भूतकारकान्वययोग्यव्यापारार्थकत्वे "भावे" (पा० सू० इति सूत्रभाष्यविरोधापत्तेरित्यर्थः । भाष्ये हि सत्वभूतो भाषो घञादेरर्थ इति प्रतिपादितम् ।