________________
७८
दर्पणसहिते वैयाकरणभूषणसारे
दिवदन्तं मीमांसकम्मन्यं प्रत्याह
तस्मात् करोतिर्धातोः स्याद् व्याख्यानं, न त्वसौ तिङाम् ॥ पक्कवान् कृतवान् पाकं किं कृतं पक्वमित्यपि ॥ ८ ॥
तस्मात्=अभिप्रायस्थहेतोः । सचेत्थम् । फलमात्रस्य धास्वर्थत्वे ग्रामो गमनवानिति प्रयोगापत्तिः । संयोगाश्रयत्वात् । फलानुत्पाददशायां व्यापारसचे पाको भवतीत्यनापत्तिः । व्यापारविगमे फलसत्त्वे पाको विद्यत इत्यापत्तिश्च । यत्तु भावप्रत्ययस्य घञादेरनुकूलव्यापारवाचकत्वान्नानुपपत्तिरिति । तन्न
रब्धे पार्क फलानुत्पत्तिदशायां, पाको जातो न वेति प्रश्ने, भविष्यतीत्युत्तराऽनुरोधात् फलमात्रं धातुवाच्यमिति मीमांसकाशयः । हेतोः पूर्वमनुपादानादाह *अभिप्रायस्थेति । त्यदादीनां बुद्धिस्थ परामर्शकत्वादिति भावः ।
*प्रयोगापत्तिरिति । भावल्युडन्तगमन पदार्थसंयोगात्मकफलस्य ग्रामे सत्त्वाद् ग्रामः संयोगवानितिवद् ग्रामो गमनवानिति प्रयोगस्य प्रामाण्यापत्तेरित्यर्थः (१) । एवमग्रेऽप्यूह्यम् *फलानुत्पादेति । फलानुत्पादे तादृशप्रयोगस्य सर्वाननुमतत्त्वादुक्तम् *व्यापारसत्व इति* | *भवतीत्यनापत्तिरिति । पाकपदार्थस्य विक्लि - तेरवर्त्तमानत्वादित्यर्थः । फलोत्पाददशायामर्थाऽबाधात्तादृशप्रयो. गस्येष्ठत्वादाह *विद्यत इत्यापत्तिश्चेति । व्यापारांशपरित्यागेन फलमात्रस्य धात्वर्थत्वाऽभिप्रायेण तु भविष्यतीत्युत्तरं पाकमुत्पादयतीति विवरणश्चेति भावः ।
* अनुकूलेति* । अनुकूलत्वोत्कीर्त्तनं त्वन्विताऽभिधानवादिनां मतमेतदिति सूचयितुम् *नानुपपत्तिरिति । भावविहितल्युड्ङ्घञा
(१) फलव्यापारयोर्धात्वर्थवादिमतेऽपि तदापत्तिरिति तु म शङ्क्यम् । अन्तरङ्गत्वात्फलस्य व्यापारे एवान्वयाङ्गीकारादिति बोध्यम् ।