________________
धात्वर्थनिर्णयः।
७७
एवञ्च 'स्वयुक्ताख्यातार्थव्यापारव्यधिकरणफलवाचकत्वं सक. र्मकत्वम्(१)आख्यातार्थव्यापाराश्रयत्वश्च कर्तृत्वं वाच्यम्'इत्या
नमिति न्यायाकारो लभ्यते । ताहि । 'पशुना यजेत' इति श्रूयते । तत्रैकवचनोपात्तमेकत्वं यागे विशेषणमुत प्रकृत्यर्थे इति संशये, पशु. पदार्थस्य यागं प्रति गुणत्वात् सम्भावितयावत्पशुकरणेन प्रधाना. वृत्तौ प्रधानभङ्गापत्या यावद्गुण प्रधानाऽऽवृत्तेरयोगादेकत्वविशि. एपशोर्विधाने त्वेकत्वस्य पशुविशेषणतया यागाङ्गत्वाऽभावात्तदः विवक्षितमेव स्यादित्यर्थकन,"तत्रैकत्वमयज्ञाङ्गमर्थस्य गुणभूतत्वात" इति सूत्रेण पूर्वपक्षिते,"शब्दवत्तूपलभ्यते तदागमे हि दृश्यते तस्य शानं यथाऽन्येषाम्" (जै० अ० ४ पा० १ सू०१५) इति सिद्धान्त. सूत्रम् । शव्दवत्-शब्दवाच्यं, यथा भवति तथोपलभ्यते । एकत्वं. हि यतस्तदागमे एकवचनसमषधाने दृश्यते । अतस्तस्य प्राधान्येन प्रतीतियथान्येषामरुणादीनामित्यर्थः । यद्वा 'तदागमे तत-एकत्व. म् । आगमे-एकवचनविधायकागमे धेकयोरित्यत्र । दृश्यते-एकवच. रूपप्रत्ययार्थत्वेन प्रतीयत, अन्येषां करणादीनामिवेत्यर्थः। __ एवञ्च समानप्रत्ययोपात्तत्वप्रत्यासत्या विभक्त्यर्थकरणाऽन्वि. तस्याऽरुणाऽधिकरणन्यायेन प्रथम क्रियायामन्वयः पश्चात् प्रकृ. त्वर्थे । तथाच पश्वेकत्वोभयकरणको याग इति बोधेनैकत्वस्य यागाङ्गत्वाऽवगमानानेकपशुभिर्याग इति तद्भावः । प्राधान्यं च प्रकू. त्यर्थाऽविशेषणत्वमेव, प्रत्ययार्थमादाय न्यायावताराद्यः प्रत्ययार्थ इति भागस्य न्यायघटकत्वम् । प्रकृते आख्यातासमवधाने भावनाs बोधात् तस्याप्राधान्येन भानमिति तत्सङ्गतिरिति बोध्यम् ।
ननु सकर्मकत्वाऽनुगतकत्र्तृत्वयोर्दुर्वचत्वमेवेतन्मते दृषणमत आह *एवञ्चति । भावनाया आख्यातवाच्यत्वे चेत्यर्थः। तथाचाऽऽ . (१) स्वाब्यवहितोत्तरत्वसंबन्धेन धातुविशिष्टाख्यातार्थव्या. पारव्यधिकरणफलवाचकत्वं सकर्मकत्वम् इत्यत्र मूलतात्पर्यम् । पतेन देवदत्तः पचति, भवति घटः इति वाक्ये पच्युत्तराख्यातस्य भयक्तत्वे भूधातोःसकर्मकतापत्तिः इत्याचपास्तम । आण्यातस्य -भृत्तरत्वाभावात् ।