SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ ७६ दर्पणसहिते वैयाकरणभूषणसारे इति भाष्य सङ्गच्छते इति दिक् ॥ ७ ॥ ___ एवं सिद्ध्यतु फलव्यापारयोर्वाच्यत्वं, किन्तु आख्यातवारुयैव सा भावना, न धातोः । प्रधान्येन प्रतीयमानस्य व्यापारस्य धात्वर्थताया प्रकृतिप्रत्ययार्थयोः प्रत्ययार्थस्य प्राधान्यमिति न्यायविरुदत्वात् । “वदागमे हि दृश्यते” इति न्यायविरुद्धत्वाच्च । यः। ननु, 'वृद्यर्थः पचिः' इति भाष्यं, पचेरुपादानात्मकर्मकाणां फ. . लार्थकत्वे साधकमस्तु, न स्वकर्मकाणामत आह-दिगिति* ॥ त. था सति सत्ताद्यर्थनिर्देशवैयर्थ्याऽऽपत्तेः । धातुसामान्यशक्त्या पच्यादेरिव भवत्यादरपि व्यापारबोधसम्भवादिति दिगर्थोऽव. सेयः॥७॥ __ ननु 'व्यापारो भावना सैव' इत्युक्तीववरणेन न व्यापारस्य धा. स्वर्थतानिर्णयः । पचति पाकं करोतीति विवरणेन आख्यातार्थ. ताया अपि वक्तुं शक्यत्वादिति मीमांसकाशङ्कासमाधानपरतया मूलमवतारयति-*एवमित्यादिना* ॥ *वाच्यत्वमिति * ॥ तिङ. न्तजन्यबोधविषयत्वमित्यर्थः । तथाच, पाकाऽनुकूला भावनत्यादि. विवरणेनाऽपि पचतीत्यस्य पाकाऽनुकूलभावनाबाधकत्वमस्त्वित्यर्थः । यथाश्रुते विवरणेन धातोर्भावनावाचकत्वनिर्णये, किं त्वाख्यातवाच्यैव सा इत्युत्तरग्रन्थाऽसतेः। प्रकृतिप्रत्ययाविति न्यायस्य संख्यादौ व्यभिचार(१)माशया. ह-*तदागमे हीति ॥ इदं च, यः प्रधानं स प्रत्ययार्थ इति न्यायाऽऽकार इत्यभिप्रेत्य । तन्मूलसुत्रालोचने तु यःप्रत्ययार्थः स प्रधा. (१) व्यभिचारेति । अयं भावः। प्रकृतिप्रत्ययार्थयोरिति न्यायस्य यः प्रधानं स प्रत्ययार्थ इत्यर्थस्वीकारः। तथा च संख्यायाः आख्यातवाच्यकर्तयन्घयादप्राधान्ये तस्याः प्रत्ययार्थत्वं न स्यात्-त. थाच तस्य न्यायस्य संख्याविषये व्यभिचार-इति । वस्तुतस्तु-यः प्रत्ययार्थः स प्रकृत्यर्थस्य विशेष्यतया भासते इस्येव तस्यार्थ इति ।
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy