________________
धात्वर्थनिर्णयः ।
क्रियावाचकत्वाविशेषात (१) । फलस्योपलक्षणत्वेऽप्येकक्रि याया एव पूर्वदेशविभागोत्तरदेश संयोगजनकत्वादुक्तदोषतादवस्थ्यमित्यपि वदन्ति । तस्मादावश्यकं सकर्मकाणां फलवाचकत्वम् | अकर्मकाणां तु तन्निर्विवादमेव । “भू सत्तायाम् " ( वा० ग० ) इत्याद्यनुशासनाच्च । अत एव - "द्वयर्थः पचिः "
७५
ननु त्याजगम्योः क्रमेण विभागसंयोगोपलक्षितव्यापाराऽर्थक. स्वमेवञ्च पीयलक्षणे तदुपलक्षणेतरानुपलक्षितत्वस्याऽपि वि शेषणाम्नोक्ताऽऽपत्तिरत आह-* उपलक्षणत्वेऽपीति* उपलक्षणत्वं च तत्पदजन्यबोधविषयत्वेन शक्त्यविषयत्वे सति शक्तिविषयत्वम् (२) | *जनकत्वादिति ॥ तथाच संयोगविभागयोः स्वार्थव्यापारजन्यत्वाऽविशेषाद् गम्यर्थव्यापारः संयोग एवोपलक्षणं, नो विभाग इत्यत्र विनिगमकाभावादुभयस्यैवोपलक्षणत्वे उक्तापत्तिदुर्वारेति फलेऽपि शक्तिरावश्यकीति भावः । अत्र, ग्रामं गच्छतीत्यादौ द्वितीयाऽर्थसंयोगादिरूपफलाऽन्वयित्वस्यैव विनिगमकत्वाद् गमनक्रिया • यां संयोगस्यैवोपलक्षणत्वमित्यस्य सुवचतयाऽन्यत्र लक्षणयोपपत्तेश्व नोक्तरीतिः साध्वीत्यस्वरसोऽपि वदन्तिभ्यां सूचितः । उपसंहरति-*तस्मादिति* ॥ उक्तयुक्तिसंहतेरित्यर्थः ।
*निर्विवादमेवेति* ॥ स्वार्थफलसमानाऽधिकरणव्यापारवाच कत्वरूपाऽकर्मकत्वस्य धातोः फलवाचकत्वं विनाऽनुपपन्नत्वादिति भावः । ननु सकर्मकत्वं पूर्वोक्तमेव तद्भिन्नधातुत्वं चाऽकर्मकत्वमिति नोक्ताऽनुपपत्तिरत आह-*भूसत्तायामिति ॥ गणेषु फलस्यैव नि. द्देशादिति भावः ॥ *अत एवेति ॥ धातुमात्रस्य फलवाचकत्वादेवेत्यर्थः ॥ *द्वयर्थ इति ॥ द्वयर्थपदं फलव्यापारोभयार्थकमित्याश
(१) क्रियावाचकत्वाविशेषादिति । एकजातीयक्रियावाचकत्वावि शेषादित्यर्थः । एतेन सकलधातूनां पयार्यतापत्तिसत्वे त्यजिगम्योर्वि शेषोपादानमसङ्गतमिति परास्तम् । सर्वेषामेकजातीयक्रियावाचकत्वाभावात । (२) केचित्तु अशक्यत्वे सति शक्यव्यावर्तकत्वं तदित्याहुः ।