SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ ७४ दर्पणसहिते वैयाकरणभूषणसारे मिति न तत् प्राप्यम् । तथा घटादेदृश्यादौ प्राप्यकर्मत्वान्नो. तातिप्रसङ्ग इति भावः। धातूनां फलावाचकत्वे त्यजिगम्योः पर्यायतापत्तिः । कम् । तथाच होमावयवरूपसोमपदाऽर्थवृत्यारम्भकसंयोगस्य धा. त्वर्थक्रियाजन्यविभागेन नाशाद्विकार्यत्वोपपत्तिरित्याहुः।। *ज्ञातुं शक्यमिति* ॥ एतेन क्रियाकृतविशेषधर्मप्रकारकाती. तियोग्यत्वं कर्मवद्भावप्रयोजकमित्युक्तं भवति । प्राचीननैयायिकम. ते तु प्रकृते का उत्पत्तिरूपफलावच्छिन्ने यत्ने लक्षणया कर्मवद्भा. घोपपत्तिः ॥ * नोक्तातिप्रसङ्ग इति* ॥ न कर्मवद्भावापत्तिरित्यर्थः । परिष्कृतनयायिकमते तु ज्ञानं करातात्याद्यप्रयोगात् साध्यत्वे फले यत्ने च कृमः शक्तिरेव । तथाच घटादौ साध्यत्वरूपविशेषध. मप्रकारकप्रतीतेः सार्वजनीनत्वात, ताशप्रतीतियोग्यतायास्तत्रा. ऽनपायादनायासेनैव कर्मवद्भावोपपत्तिः । यदि च कर्तृगतविशेषा. ऽऽधायकक्रियार्थकत्वं तत्स्थक्रियकत्वमिति लक्षणे पच्यादिकर्तरि श्रमरूपविशेषदर्शनाअज्ञानादिकर्तरि तददर्शनाचाऽतिव्याप्त्यादिदो. पादुक्तभाष्येण, विशेषदर्शनं यत्र क्रिया तत्र व्यवस्थिता। क्रियाव्यवस्था त्वन्येषां शब्दैरेव प्रकल्पिता॥ इति हरिकारिकोत्तरार्द्धन च पूर्वोक्तलक्षणयोरेव निर्भरः प्रतीय. ते इत्युच्यते तदाऽपि न क्षतिः। कर्मस्थक्रियकलक्षणे जानात्यादिभि. प्रत्वस्य षोपदेशलक्षणे वष्काधन्यतमत्वस्येव कर्तृस्थक्रियकलक्ष. णे जानात्याद्यन्यतमत्वस्यापि निवेशेन करोतो कर्मस्थक्रियकत्वस्य जानात्यादौ कर्तृस्थक्रियकत्वस्य चोपपत्तेः । अत एव हरिणाऽपि, 'श. ब्दैरेव प्रकल्पिता' इत्यत्र शब्दपदमुपात्तम् । शब्दप्रतिपाद्याऽर्थगत. विशेषैः शब्दैश्चेति तदर्थादिति । दर्शनान्तरीयां युक्तिमुपन्यस्यति*धातूनामिति* ॥ त्यजिगम्योरित्युपलक्षणं तादृशधातुमात्रस्य ॥ *पर्यायतापत्तिरिति* ॥ तच्छक्यताऽवच्छेदकावच्छिन्नशक्तत्वस्यैः व पातापदार्थत्वादिति भावः।
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy