________________
धात्वर्थनिर्णयः। घयोः कर्मवदावो, नानस्ये । प्राप्यत्वच,क्रियाकृतविशेषानुपल: भ्यमानत्वमिति(१)सुबर्थनिर्णये वक्ष्यते । नायं घटा केनचिद् दृष्टो अमोऽयं केनचिद् गत इति शक्यं कर्मदर्शनेनाऽवगन्तुम् । घटं करोतीति निर्व] सोमं मुनोतीति विकार्ये च तज्ज्ञातुं शक्य.
इत्यदिना पार्थक्येन विभजनात् तदनुसृत्याऽत्रापि तथैवोक्त. मिति ध्येयम् ॥ *प्राप्यत्वञ्चति ॥ आद्ययोर्लक्षणं तु सुबर्थनिर्णये वक्ष्यते ॥ *वक्ष्यत इति* ॥ क्रियाकृतविशेषाणामिति कारिफयेत्या र्थः। कर्मगतविशेषाधायकक्रियार्थकत्वं कर्मस्थक्रियकत्वं कर्मवद्भाषप्रयोअकमिति दर्शयितुं तदन्वयव्यतिरेको दर्शयति-*न होत्या. दि* ॥ *सोमं सुनातीति विकार्य इति* ॥ नन्वाद्ययोः कर्मस्थक्रि. यकत्वेन कर्मवद्भावविषयत्वेऽपि तत्र कथं सोमं सुनोतीत्यस्य वि. कार्यलक्षणाक्रान्तत्वम् । प्रकृतेः सोमस्य परिणमित्वाऽनवगमात् । तदुक्तं, 'प्रकृतेस्तु विवक्षायां विकार्यम्' इति(२) विवक्षायामित्यस्य परिणामित्वेनेत्यादिरिति चोदित्थं चूर्णीकरणरूपाऽभिषवैकदेशचूर्ण प्रति प्रकृतिसोमस्य परिणामित्वविवक्षया तदुपपत्तिः ।
अन्ये तु क्रिया यद्धर्मनाशकं फलं जनयति तद्विकार्यमिति ल. क्षणाऽभिप्रायेण सोमे विकार्यनिर्देशः। तथाहि । आरम्भक(३)संयोग. ऽनुकूला क्रिया सुनोतेरर्थः । सोमपदं च प्रकृते तदवयवे लाक्षणि
(१)क्रियाकृतविशेषानुपलभ्यमानत्वमिति । अनुपलभ्यमानः क्रिया कृतविशेषोयत्रेति बहुव्रीही "रानदन्तादिषुपरम्" ( पा० सू०२।२। ३१) इतिसूत्रेण विशेषणस्य परनिपातः । अनुपलभ्यमानत्वे प्राय इति शेषः। तथाच प्रायः यद्धातुकर्मणि क्रियाकृतविशेषोपलम्भावस्तद्धा. तुकर्म प्राप्यं कर्मेति पर्यवसितम्। तेन विषदृष्टिसर्पण दृष्टे मनुजे विष. बाधाजन्यमूर्छादिक्रियाकृतविशेषस्य दर्शनात्कथमस्य प्राप्यकर्मत्व. मिति शंका परास्ता।
(२) शेषश्च । कैश्चिदम्यथा । निर्वत्यै च विकार्य च कर्मशास्त्रे प्र. दार्शतम् । इति वाक्यपदीयम् ।
(३) आरम्भकत्वंच-संयोगगतो जातिविशेषः ।।