SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ दर्पणसहिते वैयाकरणभूषणसारे तथाच, ज्ञायते घटा स्वयमेवेति किन्न स्यात् । एवं ग्रामो गम्यते स्वयमेवेत्याधीत्याशङ्कां मनसि कृत्वाहनिर्वत्यै च विकार्ये च कर्मवहाव इष्यते ॥ न तु प्राप्ये कर्मणीति सिद्धान्तोऽत्र व्यवस्थितः॥७॥ ईप्सितं कर्म त्रिविधं-निर्वयै, विकार्य, प्राप्यश्च । तत्रा कर्मत्वानुपपत्तिः। ज्ञानस्य तदनुकूलव्यापारस्याश्रयतादेश्च सामाना धिकरण्यादकर्मकत्वापत्तिः, कर्तृस्थभावकत्वानुपपत्तिश्चेति वाच्यम् । शाने शानं,घटे शानमिति प्रतत्यिा विषयतया तस्य शानाश्रयताभ्युपगमेनाद्यदोषस्य फलताऽवच्छेदकसम्बन्धघटितसामानाधिकरण्यः घटिताऽकर्मत्वस्य तत्राऽभावेन द्वितीयस्य विषयतासमवायाभ्यां कर्मकर्बुभयवृत्तित्वेनाऽन्त्यदोषस्य वाऽभावात् । अधिकमग्रे घ. क्ष्यते। . प्रकृतमनुसरामः ॥ *किन्न स्यादिति* ॥ क्रियते घटः स्वयमेवे स्यत्र घटस्योत्पत्तिरूपफलाश्रयत्ववदावरणभङ्गरूपफलाश्रयत्वस्या. पि सत्वादिति भावः । ननु निर्वय॑विकार्यकर्मणोः कर्मवद्भावो, न प्राप्यकर्मीत्यत्र किं मानमत आह मूले-सिद्धान्तोऽत्रेति* ॥ अ. "कर्मवत् कर्मणा तुल्यक्रियः"(पा० सू०३।१। ८७)। इतिसूत्रभा. प्ये । तत्र हि धातोरेकाच इति सूत्रादनुवर्तमानधातुग्रहणेन धातु. पाच्यक्रियया इत्यर्थलाभेन 'साध्वसिश्छिनत्ति' 'स्थाली पचति' इत्यादी करणाधिकरणाभ्यां तुल्यक्रिये कर्तरि वस्तुतः सतोऽपि व्यापारस्य धातुवाच्यत्वाऽभावादेवाऽनतिप्रसने कर्मग्रहणमतिरि. व्यमानं कर्मस्थाकियां लक्षयतीति सिद्धान्तो व्यवस्थित इत्यर्थः । कर्मस्थक्रियकत्वं च प्राप्यभिन्नकर्मण्येव सम्भवतीति दर्शयितुमादौ वक्ष्यमाणमपि विभानं सुखबोधायाऽऽह-*ईप्सितङ्कर्मेति ॥ यद्य. पि द्वेष्याऽऽद्यनीप्सितस्याऽप्येम्वेवान्तावात् कर्म त्रिविधमित्येव वक्तुं युक्तम् । तथापि हरिणा "तयोरेभ्यस्त्रिधा मतम् । तच्चप्सिततमम्"
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy