________________
धात्वर्थनिर्णयः।
९ क्त इति नैयायिकोक्तं युक्तम । व्यवहारस्य भाक्तत्वेऽपि कर्म णि लकारासम्भवात् । न हि तीरे गङ्गापदस्य भाक्तस्वेऽपि तेन स्नानादिकार्य कर्तुं शक्यम् । एवञ्च, 'न यत्र' इत्यत्र यत्रमा प्रम् (१)इत्यर्थः ॥५॥ ... अत एवाह- . किन्तूत्पादनमेवातः कर्मवत् स्याद् यगाद्यपि ॥ कर्मकर्त्तर्यन्यथा तु न भवेत् तद् दृशेरिव ॥ ६ ॥
मृद्यते सेव्यते वा शक्यार्थोऽनयेति भक्तिलक्षणा तथा, शक्याऽर्थस्य तिरोधानात् । स्वक्षाने घटकतया शक्यार्थस्याऽपेक्षणाश्च । तत
आगतो भाक्त इत्यर्थः । ___ *भाक्तत्वेऽपि ॥ लक्षणानिबन्धनत्वेऽपि ॥ *कर्मणीति* ॥ . मुख्यसकर्मत्वमादाय शास्त्रस्य चारितायें गौणे तव्यापारे माना: ऽभावादिति भावः । तत्र लौकिकं दृष्टान्तमाह *नहीत्यादि* ॥ भा: कराजपदव्यवहार्येण पुरोहितादिना तदीयकार्यप्रवर्तनान्महदभूत. चन्द्रमा इत्यादावात्ववारणायाऽऽश्रितगौणमुख्यन्यायस्य विशिघ्या. र्थोपस्थापकविशिष्टरूपोपादानपुरस्सरपदकार्यविषयकत्वस्याऽन्यत्र व्यवस्थापनाच्च नाऽत्र तद्विषयतेत्यन्ये । - परे (२)त्वेतच्छास्त्रीयकर्मसंक्षकार्यान्वय्यर्थकत्वमेव सकर्मकत्वम् । सकर्मकपदात , कर्मणा सहेत्यर्थकाच्छन्दमर्यादया पूर्वोकाऽर्थाला. भाश्च 'लः कर्मणि' इत्यादौ सकर्मकपदाद बोधानापत्तेः । तदनन्ध. वर्थकत्वमकर्मकत्वम् । अत एवाऽध्यासिता भूमय इत्यादौ कर्मणि कोपपत्तिः । अन्वयस्य पृथगुपस्थितसंसर्गरूपतया न जीवत्यादिषु दोष इत्याहुः।
(१) मात्रपदेनोत्पत्तिरूपफलव्यवच्छेदः । केवलयत्नार्थकत्वं नाही क्रियते-उत्पत्तिविशिष्टयत्नार्थकत्वं विष्टमेवेति भावः।...
(२) मञ्जूषाकारादय इत्यर्थः।।