________________
दर्पणसहिते वैयाकरणभूषणसारे धर्मकत्वोच्छेदापतिः । नच (१)कुनादौ सकर्मकत्वव्यवहारो भा.
तु कृयो यत्नबोधकत्वादेव, नाऽचेतने स्वरसतः कर्तपदप्रयोगः।
एवञ्च कर्तृबोधनिर्वाहाऽर्थ पचतीत्यादावाख्यातस्य कृती शक्तिरावश्यकी । तदर्थप्रयत्नस्याऽऽश्रयाश्रयिभावेन प्रथमान्तार्थेऽन्ध. यात तद्बोधोपपत्तेः। यत्र तु न तद्बाधसंद्धानं रथोगच्छतीत्यादी, सत्र व्यापारे, आश्रयत्वादौ वा यथायथं लक्षणा । स्वतन्त्रः कर्ता (पा० सू०७।४। ५४) इतिसूत्रसामर्थ्येन, धात्वर्थव्यापाराऽऽश्रयतत. प्रतियोगिनामपि कत्तृत्वस्य परिभाषणान्न कर्तृबोधाऽनुपपत्तिः। यत्र प्रथमान्तसमभिव्याहारः यत्र तु कृत्यादिविशेष्यक एव तात्पर्य तत्र. तद्विशेष्यकोपि बोधः। अनभिहित इत्यस्याप्यवोधित इत्येवाऽर्थः । अबोधनं त्याश्रयाऽतिरिक्तांशे विशेषणतया कृत्याद्यर्थप्रबोधनमेवेति माभिधानाऽनभिधानव्यवस्थाऽनुपपत्तिः। चैत्रः पचतीत्यादौ कर्तृ. बोधस्य कृतिशक्तयैव निर्वाहे तत्राऽख्यातशक्तिकल्पनाऽनौचित्याश्च । व्यापारव्यपदेशाऽभावेन विक्लित्यादीनामुक्तधर्मत्वस्योपलक्षणत्वाऽ नुपगमात, पृथक् शक्तिरदृष्टैव । फलत्वं तु पूर्व निरूक्तमेव । एवं सति क्वचिद् दूषणं प्रसक्तमवगणयिष्यते इत्याहुः । एवं सकर्म. कत्वादिनिर्वचनाऽनुपपत्त्या धातोरुभयार्थकत्वमावश्यकमिति ५. यवसितम्।
व्यापारमात्रशक्तिवादिनस्तु-द्वितीयाद्यान्वय्यर्थकत्वं सकर्मकत्वम् । पच्यादिसमभिव्याहारे द्वितीयाया विक्लत्याद्यर्थकत्वात् । जानपत्यादिसमभिव्याहारे च विषयत्वाऽद्यर्थकत्वात् , तदन्वयित्वं तदर्थेऽक्षतमित्याहुः । जानात्यादियोगे घटादीनां गौणकर्मत्वमिति वदतां मतमाशय निराचष्टे *नचेति* *भाक्त इति* भन्यते आ.
(१) ननु पच्यादीनामस्तु फलांशोऽपि वाच्यः। कृआदेस्तु य. नादिव्यापारमात्रवाचित्वे बाधकाभावः। नच सकर्मकव्यवहारानुप. पत्तिरितिवाच्यम्। तस्य व्यवहारस्थ कर्मान्वितार्थकत्वेन गौणत्वात । धात्वर्थतावच्छेदकफलशालिस्वरूपमुख्यकर्मसत्व एव मुख्यसका मैकत्वं, आदेस्तु तथाभावाभावाद्भाक्तः सकर्मकव्यवहार इतिशडां निरस्यति-मचेति ।