________________
भास्वर्थनिर्णयः ।
स्यात् । तथाच स्वार्थफलव्यधिकरणव्यापारवाचित्वादिरूपसक
६७
यद्यपि व्यापारांशे विप्रतिपन्नं प्रत्यपि कृञ इत्याद्युपष्टम्भकं तथापि विवरणस्यैवाऽऽख्यातपरतया सकर्मकत्वस्य व्यापारार्थकत्वं विनाऽप्यन्यथासिद्धावुद्भावितायां तद्ग्रन्थस्याssवश्यकत्वादिति ।
नव्यनैयायिकास्तु-सकर्मक धातूनां फले तज्जनकत्वेन विवक्षि तव्यापारेषु चोपलक्षणीभूत साधनाऽऽकाङ्क्षोत्थापकतावच्छेदक
धर्मसमानाऽधिकरणधर्मत्वाऽनुगतीकृततत्तद्धर्मावच्छिन्नेषु शक्तिः, सम्भवति फलजनकतया विवक्षितानां तेषां विभिन्नधर्मवत्त्वम् । यत्र त्वेकधर्माऽवच्छिन्नस्यैव फलाऽनुकूलत्वं विवक्षाविषयस्तत्र तदपच्छिन्न एव धातोः सा । न हि सर्वत्र समुदाय एव शक्तिरिति राजाऽऽज्ञाऽस्ति ।
'क्रिया नामेयम्' इत्यादि भाष्यं तु बहुकालसाध्योक्तधात्वर्थविषयमिति न तदूव्याकोपः । अन्यथा सर्वत्राऽगतिकगत्यारोपाश्रयणापत्तेः । तेषामेव च व्यापारपदव्यपदेश्यत्वम् । कृतित्वस्य तादृशधर्मसमानाधिकरणधर्मत्वेऽपि न तस्य पच्याद्यर्थताऽवच्छेदकत्वम् । तदंशे तस्योपलक्षणत्वाऽनङ्गीकारात् । अत एव व्युत्पन्ना - नां न कदाचिदपि तत्तात्पर्येण यागपाकादिपदप्रयोगस्तथा प्रयुक्तादपि तस्मात्पाकादिकृतिबोधश्च । एतेन तस्या अपि व्यापारतया धातोरेव लाभान्न तिङस्तत्र शक्तिरिति निराकृतम् ।
जानात्यादीनां तु विषयत्वं फलं तनिर्वाहकज्ञानादि व्यापारश्च शक्यम् । कृञस्तु साध्यत्वं यत्नश्चाऽर्थः । तेन तद्धात्वर्थफलसम्बन्धित्वरूपं मुख्यकर्मत्वं घटादीनां निराबाधम् । एवं स्वार्थफलव्य • धिकरणत्वरूपं सकर्मकत्वमपि । यत्याद्यकर्मकाणां तु तत्तद्धर्माऽ.. वच्छिन्नयत्नादिरूपव्यापार एव सा । भोजनं यतते इत्यप्रयोगेण तद्विषयत्वस्य धातुशक्यत्वाऽनुपगमात् । यतत इत्युक्ते कर्माऽकाछाया अभावाश्च ।
अध्याद्युपसृष्टशीङादीनां तु फले निरूढलक्षणैव । शीङादितः सर्वत्र फलाबोधात् । तदर्थेऽनादितात्पर्य्यग्राहकतयैव च "अधिशीङ्स्थासाम" ( पा० सू० ७ । ४ । ४६ ) इत्यादिसूत्रोपयोगः । कर्तेत्यत्र