SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ अ इति ॥ (१) दर्पणसंहिते वैयाकरणभूषणसारे अयं भावः । फलांशस्यावाच्यत्वे व्यापार एक धात्वर्थः (२) व्यापाराऽर्थकत्वमेवेति प्राचीननैयायिकाभ्युपगमात् । वक्ष्यमाणरीत्या कृञः फलार्थिकत्वे तु तुल्यन्यायात् सर्वेषामेव तत्सिद्धिरिति भावः । ननु कृञः फलवाचकत्वे कथमकर्मकत्वमत आह *अयं भाव इति* । वाचकत्वादीत्यादिना स्वार्थव्यापारव्यधिकरणफलवाचकत्वस्य नैयायिकनये फलाऽवच्छिन्नव्यापाराऽर्थकत्वस्याऽपि सकमर्कत्वात्तस्य च सङ्ग्रहः । जानात्यादीनामेव फलार्थकत्वानभ्युपगम उच्छेदपदार्थोऽव्याप्तिः सर्वेषामेव तदनभ्युपगमे त्वसम्भवः । तथाच कृञ्धातुः फलवाचकः सकर्मकत्वात् पच्या दिवदित्यनुमाने विपक्षवधिकतर्क प्रदर्शकम् कृञो ऽकर्मकेत्यादीति बोध्यम् । वस्तुतस्तु, व्यापारो भावना सैवेति पूर्वाऽर्द्धमेव विवरणप्रदर्शनेन धातोः फलव्यापारोभयार्थत्वसाधकम् । तथाहि । धातोपारार्थकत्वे सिद्धे भावनादिपदैर्व्यापारपद विवरणमात्रान्न तस्य तत्वसिद्धिरितिस्फुटमेव । अतः पचति, पाकं करोति, पाकभावना, तादृश्यप्तादना, इत्यादिविवरणपरतैव तस्य वाच्या । व्याख्यातं च तथैव सारकृता । तथाच व्यापारार्थककृञेव विक्लित्त्याद्यर्थकपाकादिपदेनाऽपि विवरणादुभयोरपि धात्वर्थत्वासिद्धिः तत्र जाना त्यादी फलांशे विप्रतिपन्नं नैयायिकं प्रत्युक्तार्थौषष्टम्भकतया कृञोऽ कर्मकतेत्याद्युक्तम् । धातुमात्रे व्यापाराऽवाचकत्वं वदन्तं मीमांसकं प्रति तु तदुपपादकतयैव, - तस्मात्करोतिरित्यादि । 1 (१) कृञ् इतीति । 'यती प्रयत्ने' इतिवत् यत्नार्थकतापत्तिरित्युक्तम् | अन्यथा 'वायुर्विकुरुते' 'सैन्धवा विकुर्वते' इत्यादिप्रयोगदर्शनात् यथाश्रुतेऽसंगत्यापत्तेः । (२) धात्वर्थ इति । सकलधात्वर्थ इत्यर्थः । तेन-अकर्मककृञः फलांशस्याभावात् व्यापारस्यैव धात्वर्थत्वात् व्यापार एव धात्वर्थः स्यादित्यापत्तिदानमसंगतमित्यपास्तम् ।
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy