SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ धात्वर्थनिर्णयः। अथवा, व्यापारो भावना इत्यर्षेन व्यापारस्य वाध्यत्वं मसाध्य फलांशस्यापि तत साधयन् नैयायिकाभ्युपगतं जाना. तिकरोखादेः केवलज्ञानयत्नादिक्रियामात्रवाचितं दूषयति क. ज्नुपपत्तिश्च तथा । अत एव, निवृत्तप्रेषणाद्धातोः प्राकृतेऽणिजि. प्यते इत्याद्युपपत्तिरिति दिक् । ___ ननु, 'कृञोऽकर्मकतापतेः' इति ग्रन्थो न मीमांसकमतनिराकर• णपरः । तस्य, तस्मात् करोतिरित्यादिना निराकरिष्यमाणत्वात् तैः कृत्रा यत्नार्थकत्वाऽनभ्युपगमाञ्च । नापि नैयायिकमतनिरास. परः । नैयायिकैः फलव्यापारयोरुभयोरपि धातुवाच्यत्वाऽभ्युपगमात् । तदुक्तमाख्यातवाददीधितौ 'स्तां वा फलव्यापारी पृथगेव धात्वर्थी' इति । धातोः फलाऽवच्छिन्नव्यापारार्थकत्वे कर्मा. ख्याते फलस्य द्वेधा भानापत्त्या तयोर्विशकलितयोरेव शक्तिायसीति तद्भावः। फलस्य धातुवाच्यत्वे परं केषाञ्चिन्यायविदा विप्रतिपत्तिः । कर्माख्यातेन द्वितीयया च तद्भानसम्भवात् । किश्चै तद्ग्रन्थस्य धातुमात्रस्य व्यापाराऽर्थकत्वसाधकत्वे धातोरकर्म तापत्तः, 'फलमात्राऽर्थता न हि' इत्येव ब्रूयान्न तु कृष इत्यपरितो. पादन्यार्थपरतया मूलमवतारयति *अथवेति । *प्रसाध्येति । पूर्वाऽर्द्धस्य विवरणपरतया व्याख्यानादिति भाषः । तदिति । धातु(१)वाच्यत्वमित्यर्थः । *जानातिकरोत्या. देरिति । निर्दिष्टयत्नार्थकभिन्नसविषयार्थकधातुमात्रोपलक्षणम् । *क्रियामात्रेति* मात्रपदेन फलव्यवच्छेदः। सकर्मकाणां प्रायशः फलाऽवच्छिन्नव्यापारवाचकत्वं, विशकलितफलव्यापारोभयाऽर्थ. कत्वं वा जानात्यादीनां तु ज्ञानादिव्यापारार्थकत्वमेव । अकर्मकाणां तु सर्वेषां न फलाऽर्थकत्वम् । तस्य ततोऽननुभवात् । किन्तु (१) धातुवाच्यत्वमिति । एतेन 'व्यापारो भावना' इति कारिका या व्यापारस्य धातुवाच्यत्वसाधनेपि फलस्य न साधि मितिन्यून. तेतिशका परास्ता ।
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy