SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ १४ दर्पणसहिते वैयाकरणक्षणसारे तथाच, 'न हि यत्न' इत्यत्र फलस्थानीयत्वेनेति शेषः । कृन इति धातुमात्रोपलक्षणम् । सर्वेषामप्यकर्मकता सकर्मकता वा स्यादिति भावः (१)। उक्तप्रायरीत्या, सकर्मकधातुभित्रधातुस्वमित्याकारिकयेत्यर्थः । या थाश्रुते धातोापाराऽवाचकत्वे स्वार्थफलसमानाधिकरणव्यापा. रवाचकत्वरूपाऽकर्मकत्वापादनस्याऽसम्भवदुक्तिकत्वापत्तेः।। नन्विदानी धातुमात्रस्यैव व्यापारवाचकत्वस्याऽसिद्धत्वात् सकर्मकरूपप्रतियोग्यऽप्रसिद्धया भवदुक्तार्थापादनस्याऽप्यसम्भव. दुक्तिकत्वं समानम् । अन्यतमत्वरूपस्य तु स्वयमेव निराकृतत्वा. दुक्तपदेन तद्ग्रहणाऽसम्भवादिति चेन्न । नयत्यादिद्विकर्मकाणां संयोगाऽद्यनुकूलाऽजादिनिष्ठक्रियात्मकफलार्थकत्वस्य धातोः फलमात्रार्थकत्ववादिनाऽन्यभ्युपगमादजादिनिष्ठक्रियायाः संयोगरूप. फलजनकत्वाल्लोकप्रसिद्धेश्च व्यापारत्वात्तदर्शकधातून ण्यन्तादि. धातून चोपादायैव कथञ्चित्प्रसिद्धिसम्भवादिति नोकव्याख्या ने दोषः। __ नन्वेताषता झाकृमादीनां व्यापारार्थकत्वं सिद्धं, न धातु. मात्रस्येत्यतः कृपदं धातुमात्रपरतया व्याचष्टे-*कृञ इति धातुमानोपलक्षणमिति । कृपदं शक्यलक्ष्वसाधारणधातुत्वे. नाऽजहत्स्वार्थलक्षणया धातुमात्रबोधकम् । तथाच धातुमात्र. स्याऽकर्मकतापत्या न फलमात्रार्थकता, किं तु व्यापाराऽर्थः कतापात्यर्थः । *अकर्मकतेति । पूर्वोक्तभिन्न सर्वधातूनां से. स्यर्थः । यदि फलवाचकत्वमेव सकर्मकत्वं, तदा सर्वेषामविशेषेण सकर्मकतैव स्यादित्याह *सकर्मकतेति । वस्तुतस्तु उक्तयुक्तथा धातोापारार्थकत्वसिद्धिस्तदैव स्याधदि स्वाऽर्थफलत्यादि सकर्मकलक्षणं सकर्मकधातुमात्रसाधारणं. स्यात् । तदेव न । अध्याधुपसृष्टशीङादिष्वज्याप्तेः । तस्माद्भवादीनां धातुत्वाऽनापत्तिः । मैत्रेण पाचयतीत्यादौ मैत्रादीनां कर्तृत्वा. (१) तथाच सकर्मकाकर्मकविभागोच्छेद इति तात्पर्यम् ।
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy