________________
पात्वर्थनिर्णयः।... वार्थभेदेनाकर्मकत्वसकर्मकत्वदर्शनात् । तदेतदभिसन्धायाह कृत इति ॥
अयं भावः । व्यापाराऽवाच्यत्वपक्षे फलमात्रम् (१)अर्थ इति फलितम् । तथाच, करोतीत्यादौ यत्नप्रतीतेस्तन्मात्र वाच्यमभ्युपेयम् । तथाच, 'यती प्रयत्ने' इतिवत् फलस्थानी. ययत्नवाचकत्वाविशेषादकर्मकतापत्तिरुक्तरीत्या दुर्बोरेति(२)।
पादाय तावद्भिन्नभिन्नत्वमित्यर्थः (३) *तत्त्वमिति । अनुगतं स. सकर्मकत्वमित्यर्थः। *दर्शनादिति* यथा जिधातोरभिभवार्थेऽकर्मका त्वस्य न्यूनीकरणार्थे सकर्मकत्वस्याभ्युपगमात्सकर्मकधातुलक्षणे त. प्रवेशेऽकर्मके तस्मिन्नतिव्याप्तिरप्रवेशे च न्यूनीकरणेथै तत्रैवाऽन्या. तिरित्यर्थः ।।
यद्यपि तत्तदर्थविशिष्टानेवोक्तरीत्योपादाय सकर्मकन्धनिर्वचने दोषाभावस्तथापि 'बहुलमेतनिदर्शनम्' इति (४)स्मरणात्तत्र तत्रा. वृत्तिकरणाच्च तावद्धातूनां युगपद् ग्रहणाऽसम्भवे तात्पर्यमिति बो. ध्यम् । तदेतदिति। पूर्वोक्तदूषणगणमित्यर्थः॥ . ननु कृतोऽकर्मकतापत्तरित्यस्य कृओ यत्नार्थकत्वनिरासप्रतिपादकस्य कथमुक्तार्थाऽभिसन्धायकत्वमित्याशङ्कयाऽभिसन्धानप्रकारं विशदयति *अयम्भाव इति* । *फलमात्रमिति*। मात्रपदेन व्यापारव्यवच्छेदः । 'करोत्यादौ' इत्यादिना सविषयार्थधातुसंग्रहः ।
*तन्मात्रमिति । यत्नादिरूपविषयिमात्रमित्यर्थः। अकर्मकता. पत्तिरिति । व्यापारस्य धात्ववाच्यत्वे उक्तलक्षणाऽऽक्रान्तस्यति भाषः केचित्त अकर्मकत्वापत्तिरिति विषय्यर्थककृताधभिप्रायेणैव ते. षामेव प्रक्रान्तत्वात् एवं च न तदप्रसिद्धिरित्याहुः। *उक्तरीत्यति ।
(१) अर्थ इति । अस्य धातारित्यादि । (२) सर्वधातूनामितिशेषः। (३) तत्तद्धात्वानुपूर्व्यवच्छिन्नप्रतियोगिताकभेदसमुदायवद्भि. नत्वमिति यावत् । (४) गणसूत्रमेतत् । धातुपाठे चुरादिगणे पठितम् ।