________________
भ्रात्वर्थनिर्णयः ।
६१
•
किश्च भवानाया अवाच्यत्वे, घटं भावयतीत्यत्रेत्र घटो भवतीत्यत्रापि द्वितीया स्यात् । नचात्र घटस्य कर्तृत्वेन तत्संज्ञया कर्मसंज्ञाया बाधान द्वितीयेति वाच्यम् । अनुगतकर्तृत्वस्य त्वन्मते दुर्वचत्वेन घटस्याकर्तृत्वात् । कृत्याश्रयत्वस्य. कारकचक्रप्रयोक्तृत्वस्य वा घटादावभावात् । धात्वर्थानुकूलव्यापाराश्रयत्वस्य च कारकमात्रातिव्यापकत्वात् ।
नाsनुकूलो व्यापार इति व्यापारसामान्यार्थकव्यापारपदेन स्वो. त्कीर्त्तितस्य सङ्गतिरिति । 'कृञोऽकर्मकतापत्तेः' इति मूलमवतारयति * किञ्चेति* । *अवाच्यत्वे धात्वशक्यत्वे । द्वितीया स्यादिति । श्धात्वर्थोत्पत्तिरूपफलाऽऽश्रयत्वात् (१) ।
*
ननु, घटो भवतीत्यत्र कृत्याश्रयत्वरूपकर्त्तृत्वबाधेऽपि धात्वर्थफलाऽन्विताऽख्यातार्थव्यापाराश्रयत्वरूपकर्तृत्वान्तेन कर्मत्वस्याsaश्यं बाधेन नोक्तस्थले द्वितीयाप्रसक्तिरन्यथा कर्त्तरि लकारोऽप्य• नाकरतामापद्येतेत्याशङ्क्य निराकुरुते *नचेति* | *घटस्येति* । घटं भावयतीत्यत्रेव घटो भवतीत्यत्राऽपि द्वितीयाऽऽपत्तिः । मन्मते तु धातूपात्तव्यापाराऽऽश्रयत्वेन परया कर्त्तृसंशया- कर्मसंज्ञाया बाधान्न तदापत्तिरिति भावः ।
निराकरणप्रकारमेवाह अनुगतेति । चेतनाऽचेतनसाधारणेत्यर्थः। *त्वन्मत्ते* । भवदीयमते । दुर्वचत्वेनेति । वक्तुमशक्यत्वेनेत्यर्थः । तदेवाऽऽह *कृत्याश्रयत्वस्येति । तस्याऽचेतनेऽष्यासत्वादिति भावः । *कारकचक्रप्रयोक्तृत्वस्य वेति । तद्धात्वर्थीनिखिलकारक प्रवर्त्तकत्वरूपस्य चेत्यर्थः । नैयायिकमतं निरस्य मी. मांसकं प्रत्याऽऽह *धात्वर्थेति । *कारकमात्रेति* । मात्रपदं कृ
(१) भावनाया अवाच्यते स्वजनकव्यापारव्यधिकरणधात्वर्थफलाश्रयत्वं कर्मत्वं वक्तव्यम्, धात्वर्थफलाश्रयत्वमेव वा । तथाच 'घटं भावयति' इत्यत्रेव 'घटोभवति' इत्यत्रापि घटपदाद्वितीयाप तिः । उभयत्रापि धात्वर्थोत्पत्तिरुफलाश्रयत्वाविशेषादितिभावः ।