________________
दर्पणसहित धैयाकरणभूषणसारे करोतिना विवरणाद् यत्र एवाऽऽख्यातार्थ इति वाच्यम । रथोगमनं करोति, बीजादिना अङ्कुरः कृतः, इति दर्शनात कृमो पत्रार्थकताया असिद्धः।
म्यत्वप्रतिसन्धानाऽविशेषेऽपि घटाङ्करयोः कृताऽकृतव्यवहारात्कृत्रो यत्नार्थकत्वं सिद्धमेवेति ध्वनयति *विवरणादिति । तदर्थप्रतिपा. दकपदकथनरूपादित्यर्थः। धातुमात्रं यत्नत्वविशिष्ट शक्तं, बाधकं विना यत्नत्वविशिष्टाऽर्थककरोतिप्रतिपादिताऽर्थकत्वाद् । यद्यद्विः थिष्टबोधकपदप्रतिपादितार्थकं भवति तत्तत्र शक्तम् । घटत्वविशिष्टशक्तघटपदप्रतिपादितार्थककलशादिपदवदिति सामान्यतो दृष्टा नुमानविधया शक्तिप्राहकत्वाद्विवरणस्येति भावः। यत्न एवार्थ इति पाठः। यत्न एव आख्यातार्थ इति पाठस्तु प्रकृतसन्दर्भविरुद्धः। *अर्थ: । धात्वर्थः। एवकारेण व्यापारस्य वाच्यत्वव्यवच्छेदः ।
कृो यत्नार्थकत्वे एव धातुमात्रस्य तदर्थकत्वसम्भावना। तदेव गगनकुसुमोपमानमित्याह रथो गमनं करोतीत्यादि। रथादावचेतने यत्नस्य बाधेन तादृशप्रयोगाऽनुपपत्त्या न कृमो यत्नार्थकत्वमपि तु व्यापारार्थकत्वमेवेति, तेन विवरणाद्धातोव्या. पारार्थकत्वमेव सिद्धथतीति भावः।
ननु रथो गच्छतीति प्रयोगस्य धात्वर्थप्रतिपादकत्रो व्यापारे लाक्षणिकत्वान्न तेन यत्नार्थकत्वक्षतिरत आह *बीजादिनेति । तथाच कृत्रो व्यापारे प्रयोगप्राचुर्येण तत्रैव शक्तिया॑य्येति तेन धातोर्विवरणाद्धातोापारार्थकत्वमवश्यमङ्गीकरणीयमिति भावः।
अत्रेदमवधेयम् । वैयाकरणमते ऽपि पचत्यादेः फूत्कारादिव्यापारे व्यापारत्वेनैव शक्तिः, व्यापारसामान्यार्थका विवरणात् । एवञ्च व्यापारत्वेन कृतेरपि संग्राहान्मत्तो भूतं, न तु मया कृतम् इति तत्र तत्रोक्तं सङ्गच्छते । तत्तद्रूपेणं कचिद् बाधस्तु पचत्यादीनां तत्तदपावच्छिन्ने लक्षणयोपपाधः।
शक्यादन्येन रूपेण झाने भवति लक्षणा । इत्यभियुक्तोक्तः। अत एव वाक्यार्थप्रदर्शनाऽवसरे विक्लित्त्यनुकूलो व्यापार