SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ धात्वर्थनिर्णयः। दिप्रकारकबोधो लक्षणयेति नैयायिकरीतिः साधी । शक्यताबच्छेदकत्वस्यापि लक्ष्यतावच्छेदकत्ववद् गुरुणि सम्भवात् त. योवैषम्ये बीजाभावात् । नच पचति, पाकं करोतीति यत्नार्थक योगित्वपरिग्रहः। जानातीत्यादावित्यादिपदग्राह्ये घटोनश्यतीत्यादी. मांशाश्रयत्वस्य बाधात्प्रतियोगित्वे एव लक्षणाया द्रष्टव्यत्वात् ।। __. *नैयायिकरीतिरिति* । आख्यातार्थविचारे हि तैव्यापारे ल. क्षणां कृतौ च शक्तिं स्वीकृत्याऽयं प्रयोगः समर्थितस्तद्वन्मयाऽपि समर्थनीय इतिसादृश्यात् रीतिपदोपादानं, न त्वन्यांऽशेतन्मताss दर इति भावः । लाघवोपष्टब्धमानादेवार्थसिद्धिनकवलाल्लाघवा. दित्याशयेन मीमांसकरीत्या तद्रीतरेवाऽसाधुत्वमाविष्करोति *श. क्यतावच्छेदकत्वस्येति । तथाच असति बाधके शक्तिर्गुरुणाऽपि धर्मणावच्छिद्यते, कृतित्वाल्लक्षणावदित्यनुमानात्तेषु शक्तिः सेत्स्यतीति भावः। ननु तेषां कृतित्वाऽपेक्षया गुरुत्वमेव बाधकमत आह तयो. रिति । शक्यतावच्छेदकत्वपक्ष्यतावच्छेदकत्वयोरित्यर्थः। बीजा. भावादिति । सम्भवति(३)समनियते लघौ धर्म गुरौ तद. भावादित्यस्य प्रकृतेऽनवतारेण यद्यवच्छेदकत्वं स्वरूपसम्बन्धः विशेषस्तदा तत्स्वरूपत्वस्य गुरूणामपि सत्वात्किमनुपपन्नम् । अथातिरिक्तं तदा गुरुधर्मेऽपि ततस्वीकार आवश्यकः । गङ्गातीरत्वं लक्ष्यतावच्छेदकमिति व्यवहारात् । वृत्त्यवच्छेदककोटिप्रविष्टत्व. स्योभयत्र साम्याच्च । तत्र न्यूनाऽतिरिक्तवृत्तित्वरूपाऽवच्छेदकत्व. मादाय ताशव्यवहारो यदि, तदा सर्वत्रैव तथास्त्विति भावः। . ननु लाघवादेव न तस्याऽवच्छेदकत्वं वदामः, किन्तु माना. दपीत्याशङ्कते *नचेति । यत्नार्थककरोतिनेत्युक्त्या व्यापारज. (३) संभवतीति । अत्र संभवतीत्यस्य संभवत्तदवच्छेदकताक इत्यर्थः । तथा चेयं व्याप्तिः पर्यवस्थति संभवत्तदवच्छेदकताकधर्मापेक्षया योगुरुर्धर्मः स तदनवच्छेदकताक इति । न्यायस्वीकारादेव प्रमेयधूमे प्रमेयत्वविशिष्टाभावप्रतियोगितावच्छेदकत्वं नास्तीतिप्रतीतिः सिद्धा धूमत्वे नास्तीति तार्किकप्रवादः संगच्छते।
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy