________________
दर्पणसहित धैयाकरणभूषणसारे दना इतिविवरणाद वित्रियमाणस्यापि तद्वाचकतेति भावः । व्यापारपदं च फूत्कारादीनामयनानामपि फुत्कारत्वादिरूपेण वाच्यतां ध्वनायितुमुक्तम् । अत एव, पचतीसत्र अधःसन्ताप. नत्वफूत्कारत्वचुल्ल्युपरिधारणत्वयनत्वादिभिर्बोधः सर्वसिद्धः ।
नचैवमेषां शक्यतावच्छेदकत्वे गौरवापत्त्या कृतित्वमेव तद. वच्छेदकं वाच्यं, रथो गच्छति, जानातीयादौ च व्यापारत्वा.
दयतीति । ननु, या क्रिया भावना सैवोत्पादनाऽपि च सा स्मृता इत्युक्तेऽपि क्रियाया भावनात्वलाभे किमिति व्यापारपदोपादानमत आह-*व्यापारपदश्चेति । तथाच व्याप्रियतेऽनेनेति करणव्युत्पन्नेन, भावव्युत्पन्न वा व्यापारपदेन फलानुकूलयावतामधिश्रयणादीनां भावनात्वलाभाय तदुपादानम्। क्रियापदेन तु कृतिपदवद्यत्नमानार्थकत्वस्यापि सम्भवेन तन्मात्रस्यैव तद्विवरणेन भावनात्वलाभः स्यादिति भावः।
*अत एवेति । तत्तद्रपेण फूत्कारत्वादीनां धातुवाच्यत्वादेवे. त्यर्थः । सर्वसिद्ध इति । अत एव पचतीत्युक्ते फूत्कारादिमान्न वेति सन्देह इति भावः। यद्रीत्या नैयायिकैः व्यापारत्वस्याख्या. तवाच्यतावच्छेदकत्वं निरस्य कृतित्वस्य तद्यवस्थापितं तद्रीत्यैव धातोः कृतित्वमात्रं शक्यतावच्छेदकं भविष्यतीति तटस्थाऽऽशङ्कां निराकरोति *नचैवमेषामित्यादि । 'न च' इति साध्वीत्यनेना. न्वितम् । एषाम् * । अधिश्रयणत्वादीनाम् । *गौरवेति । धातु. वाच्यत्वावच्छदकत्वे गौरवापत्त्येत्यर्थः । तेषां कृतित्वापेक्षया गुरुत्वान्नानात्वाञ्चति भावः ॥ ... ___ *तदवच्छेदकमिति *(१) । धातुवाच्यतावच्छेदकमित्यर्थः । ननु कृतेरेव धात्वर्थत्वे रथादावाचेतने तबाधात्ताहशप्रयोगानुपपत्तिरतआह *रथोगच्छत्तीत्यादि । व्यापारादीत्यादिनाऽऽश्रयत्वप्रति.
(१) तदवच्छेदकमिति । अयं भावः प्रवृत्तित्वरूपकृतित्वामिष्टसाधनताशानकार्यतावच्छेदकतया सिद्धोजातिविशेषः। ततस्तदेवाख्या. तशक्यतावच्छेदकं लावादिति ।