SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ भात्वर्थनिर्णयः। ५७ बनाया अवाच्यत्वं वदतः प्राभाकरादीन प्रति व्यवस्थापयतिव्यापारो भावना सैवोत्पादना सैव च क्रिया ॥ कृओऽकर्मकतापत्तेनहि यत्नोऽर्थ इष्यते ॥ ५ ॥ पचति पाकमुत्पादयति, पाकानुकूला भावना, ताश्युत्पा तिर्थत्वे च शाते, निरसनीयल्यवादिविप्रतिपत्तिकत्वेन सुप्रतिपाचतया च प्रथमं वाक्याथै एव शिष्यजिशासोदयात् । स एवाऽदौ निरूपितो, न तु धात्वर्थः। निरसनीयबहुवादिविप्रतिपत्तिकत्वेना. तिदुरूहतया च तस्य पूर्वमाजिशासितत्वादिति भावः। 'लडाद्यन्ते' इत्यऽतद्गुणसंविज्ञानबहुव्रीहिणा धातुपरम् । तथा. च, यजेत, पचतेत्यादौ यज्यादिधातावित्यर्थः। * अवाच्यत्वम(१)* । वाच्यंतानिरूपकत्वाऽभावम् । 'प्राभाकरादीन्' इत्यादिना नैयायिकसंग्रहः। ___ यद्यपि व्यापारो धात्वर्थत्वेन नैयायिकसंमतस्तथापि नाऽसौ त. न्मते भावनापदव्यपदेश्य इति भावः । 'व्यापारो भावना सैव' इ. त्यादिपूर्वार्द्धस्य यो 'गुणभूतैरवयवैः' इत्याधुक्तलक्षणलक्षितीर्थस्तद्वा. चकव्यापारपदं भावनादिपदैर्विवियते । विद्रियमाणस्य विवरणसमानार्थकत्वेन धातो वनावाचकत्वसिद्धिरित्यर्थः । तत्रोद्देश्यवि. धेययोरैक्यमापादयतः सर्वनाम्नः पर्यायेणान्यतलिङ्गकत्वस्य, 'शैत्यं हि यत् सा प्रकृतिर्जलस्य 'इत्यादिबहुषु स्थलषुदर्शनान्न 'स'इति स्त्रीलिङ्गनिर्देशानुपपत्तिः। पुल्लिङ्गत्वेऽपि, 'सोऽचि लोपे चेत्' (पा० सु०६।१।१३४) इतिलोपेन साधुत्वाच । भावनैव वाऽस्तु त. त्पदपरामृष्या। • ननु, सम्भवेदेवं धातोापारार्थकत्वे, तत्र च किं मानमित्याशङ्कय कृषा धातुविवरणे मानं दर्शयति सारे *पचति पाकमुत्पा (१) अवाच्यत्वमिति । प्राभाकराश्च न भावना धातुवाच्या, तस्या धातुवाच्यत्वे "प्रकृतिप्रत्ययौ" इतिन्यायेनाप्राधान्यापत्तेः । अतः सा प्रत्ययवाच्यैव इति वदन्ति ।
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy