________________
दर्पणसहिते वैयाकरणभूषणसारे . (१) उत्सर्गोऽयं कर्मकर्तृविषयादौ विपर्ययात् । तस्माद् यथाचित ज्ञेयं द्योतकत्वं यथागमम् ॥ ४॥
कर्मकविषयादौ, पच्यते ओदनः स्वयमेवेत्यादौ । अत्र कौदनाभिन्नाश्रयकः पाकानुकूलो व्यापार इति बोधः । - क्रमादिति, आदिपदग्राह्यम् । अत्र सामान्यविशेषज्ञानपूर्वक एकनारदविषयकज्ञानाऽनुकूलः कृष्णाभिन्नाश्रयकोऽतीतो. व्यापार इति बोधः॥ यथोचितमिति ॥ सकर्मकधातुसमभिव्याहतभावसाधारणविधिविधेयचिम्यगादि कर्मयोतकमिति भावः॥४॥
एवं सूचीकटाहन्यायेन सोपपत्तिकं वाक्यार्थमुपवर्ण्य, फल. व्यापारयोः इति प्रतिवात घातोापारवाचित्वं लडायन्ते भा.
क्रमादित्यादीति । कर्मक विषयादाविति मूलस्थादिपदेनेत्या. दि क्रमादित्यस्य विवरणम् । सविषयधात्वार्थनिरूपितकर्मत्वस्य विषयत्वे पर्यवसानमित्यभिप्रेत्याह विषयकेति । सकर्मकधातुसमभिव्याहृतयगादीनां कर्मद्योतकत्वादाह सकर्मकेति* । पच्य. ते तम्डुलः स्वयमेवेत्यादौ । यगादि तु न तथा, किन्त्वातिदेशिकम् । 'कर्मवत् कर्मणा' (पा० सू०३।१।८७) इति विहितातिदेश स्वस्याऽऽकरे सिद्धान्तितत्वान्न तत्र व्यभिचार इति भावः। *भावसा. धारणेति । भावकर्मणोः सार्वधातुके यगित्यादिविहितेत्यर्थः । तेन, 'दीपजन' (पा० सु०३।१।६१) इत्यादिविहितव्यावृत्तिः ॥४॥
एवमिति । उक्तप्रकारणेत्यर्थः। ननु फलव्यापारयोरित्यनेन सामान्यतो धातोः फलव्यापारवाचकत्वप्रतिक्षातस्योत्तरक्षणे एवो. पपत्तिभिस्तव्यवस्थापनं कर्तुमुचितं, न तु : वाक्यार्थनिरूपणानस्तरम् , तेन जिज्ञासाविच्छेदादित्याशङ्कायामाह *सूचीकटाहन्या. येनेति । तथाच सामान्यतः फलव्यापारयोर्धात्वर्थत्वे, आश्रयस्य ... (१) उत्सर्गोऽयमिति । अनोत्सर्गत्यश्च प्रायिकत्वम् । अर्थात्सङा. दिः कर्मद्योतक इति सार्वत्रिकोन नियम इति भावः।