SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ 'धात्वर्थनिर्णयः । ५५ तङादयः फले आश्रयाऽन्वयं द्योतयन्ति । फलाऽन्वय्या - श्रयस्य कर्मत्वात्, तद्द्योतकाः कर्मद्योतकाः । व्यापाराऽन्वय्याश्रयस्य कर्तृत्वात्, तद्द्योतकाः कर्तृद्योतका इति समुदायार्थः । द्योतयन्ति तात्पर्य्यं ग्राहयन्ति ॥ ३ ॥ नन्वेवं, 'क्रमादमुं नारद इत्यबोधि स' इत्यादौ, 'पच्यते ओदनः स्वयमेव' इसादौ च व्यभिचारः । कर्मणः कर्त्तृत्वविवक्षायां कर्त्तरि लकारे सति, “कर्मवत् कर्मणा तुल्यक्रियः " ( पा०सू ३|१| ८७) इत्यतिदेशेन यगात्मनेपदचिणचिण्वदिटामतिदेशाद्यगादिसवे Sपि कर्तुरेवबोधाद् व्यापारे एवाश्रयान्वयाश्च । अबोधीत्यत्रापि बुध्यतेः कर्त्तरि लुङ् | तस्य "दीपजन" (पा०सू० ६ |४| १०४ ) इति चिण् । “चिणो लुक् " (पा० सू० ६ । १०४ ) इति तस्य लुगू इति साधनादित्याशङ्कायामाह - र्थः । 'फलव्यापारयो' इति निर्द्धारणे सप्तमीत्याशयेन व्याचष्टे सा रे *फल इति ॥ ३ ॥ *व्यभिचार इति* | यगादीनामन्वये, शबादीनां व्यतिरेके चेंत्यर्थः । यगादिसत्त्वेऽपि फले आश्रयाऽन्वयाऽबोधाच्छबाद्यभावेऽपि व्यापारे तिङर्थ आश्रयान्वयात् तदेवोपपादयति *कर्मणः कर्त्तृत्व. विवक्षायामित्यादि * । सौकर्य्यातिशयद्योतनार्था च तद्विवक्षा त ण्डुलादिगताग्निसंयोगादिरूपव्यापारस्यैव फलजनकतया धात्वर्थत्वविवक्षायामित्यर्थः । वस्तुतस्तु फलस्यापि जनकव्यापारगतपौर्वापर्थ्यारोपेण व्यापारत्वेन भानात् इतिपूर्वमुक्तत्वात्तण्डुलगतफलम्यैव व्यापारत्वेन विवक्षायामित्यर्थः । *साधनादिति । तथाच व्यभिचारान्न तादीनां द्योतकतेति भावः ॥
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy