________________
धात्वर्थनिर्णयः। त्यानेति परिहतं भाष्ये । त्वदुक्तरीत्या तिङा कारकगतायास्तस्या उक्तत्वेऽपि प्रकृत्यर्थगतायास्तस्या अनुक्ततयौत्सर्गिकतया वैकवचन. स्याशक्यवारणत्वेन तदसङ्गतिः स्पष्टैव ।
"द्वयेकयोः-" (पा. सू. ७४।२२) इत्यादेर्लः कर्मणि इत्यनेनैकपाक्यताऽपि लकाराः कर्मादौ भवन्ति तेषां स्थाने चैकत्वादी तिबा. दयो भवन्तीत्याकारैव । न हि तत्र द्वितीया कर्मणीत्याद्यस्ति, येन संख्यायाः कारकविशेषणता प्रतीयेत । आवृत्तौ च न मानम् । तस्मात् सर्वत्र संख्यायाः प्रकृत्यर्थ एषाऽन्वयः। _ 'कस्यैकत्वादो' इत्याकाङ्क्षायामुपस्थितत्वात् प्रकृत्यर्थाऽन्वय. स्यैवोचितत्वात् । कर्मणीत्यादेरपि विधेयं प्रति विशेषणत्वेन, 'गुणानां च परार्थत्वादु' इतिन्यायेन संख्यायामसम्बन्धात् । कर्मणीत्यादेः कस्य कर्मणीत्याsकाजासत्वेन तत्र धात्वर्थान्वयस्य क्लप्तत्वात् । क्रियायामप्येकत्वमस्त्येव “एका क्रिया” इति रूपप्सूत्रभाष्यात् । एवञ्च तस्य प्रकृत्यर्थेऽन्वयादेकवचनम् । द्वित्वादिकं तु स्वोत्तरतिवाच्यकारकगतं तत्रारोप्य कर्तृकर्मकेषु तिषु द्विवचनादि. सिद्धिः । अत एव, न साधने द्वित्वादिसंशयः । क्रियागतसंख्यारो. पस्य साधनज्ञाननिमित्तत्वात् । अनेकः पचतीत्याद्यनुरोधेन साधने ऽपि संख्यारोपस्य तवाऽपि वाच्यत्वात् तस्यांऽप्यऽन्वयः प्रकृत्यर्थ एव । प्रकृते, हतशायिकाः शय्यन्ते इत्यादौ हतशयनसदृशानीत्यर्थे उपमाने बहुत्वोपपादनसामर्थ्येनोपमेये तिङन्तार्थक्रियारूपे उपमानगतबहुत्वारोपेण बहुवचनम् । तिवाच्यकारकगताया एवारोपो, माऽन्यगताया इत्यत्र धात्वर्थशक्तिस्वभाव एव बीजम् । अत एव भावे द्विवचनादि । तदुक्तम् ।
एकत्वेऽपि क्रियाऽऽख्याते साधनाश्रयसंख्यया। भिद्यते न तु लिङ्गाख्यो भेदस्तत्र तदाश्रयः ॥ इति ।
एवञ्चाख्यातार्थप्रकारकबोधे धातुजन्योपस्थितिः कारणमित्येक एव कार्यकारणभाव इति लाघवम् । “प्रत्ययानाम्" इति व्युत्पत्तिपरिपालनं चेत्याहुः।
तदपरे न क्षमन्ते । औत्सर्गिकैकवचनस्य (१) समयपरिपालनार्थकतया तत्र गमकाऽऽकालाया अभावेन 'सत्येव गमके' इत्युक्ति.
(१) समयश्च-'अपंदन प्रयुञ्जीत' इत्याकारकः ।।