SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ 'दर्पणसहिते वैयाकरणभूषणसारे त्यर्थ पति, "सुप आत्मनः" (पा० सू०३।१।८) इति सत्रे. भाष्ये उक्तम् । अन्यथोभयत्राऽपि व्यापाराविशेष्यकधावोधेन भि. भिन्नार्थकत्वकथनाऽसङ्गतिः। अस्मन्मते स्वेकत्र व्यापारो (१)विशे. ध्योऽन्यनेच्छारूपं (२)फलमिति भिन्नाऽर्थकत्वं स्पष्टमेव । क्यजन्ता. तु कर्मणि प्रत्ययो दुर्लभोऽकर्मकत्वात् । उक्तश्च कैयटेन 'यदा क्रिया. फलस्य प्राधान्यं तदा वाक्यमेव-इष्यते पुत्रः, न तु क्यजन्तस्तस्या. ऽकर्मकत्वात् कर्मणि प्रत्ययाऽनुत्पादात्' इति । इत्थच 'भावनां. जन्यकाश्रयिका वर्तमाना विक्लित्तिः' इतिबोध इत्याहुः । भावाऽऽख्याते तु भावनैव विशेष्या। तथैवाऽनुभवात् । ति त्वनुवादक एव, किन्तु लट्त्वादिना कालार्थकः । संख्या तु न तद. र्थः। कादिरूपाऽर्थोपस्थित्याऽत्मकत्वभावेन तदर्थसंख्याया अ. न्वयाऽसम्भवात् । किन्तु, 'न केवला' (३) इत्यादिन्यायेन साधुः स्वार्थमेकवचनमेव । “एकवचनमुत्सर्गतः करिष्यते" इति सि. द्धान्तात् । काले युक्ताभिसरणे मुह्यन्ते मृगमोहिकाः। उष्ट्रासिकाः समास्यन्ते शय्यन्ते हतशायिकाः॥ इत्यत्र बहुवचनं तु भाष्यकारप्रयोगादेवेति प्राञ्चः। नव्यास्तु, एकवचनस्यौत्सर्गिकन्वं सत्येव गमके, यथाऽव्ययात् तदुत्पत्तौ "अव्ययादाप्सुपः" इति । अत एव, “ड्याप्" (ना.सू. ४।१।१) इति सूत्राऽभावे तिङन्तेभ्यस्तदुत्पत्तिमाशय तिङा संख्याया उक्त (१) 'पुत्रकर्मकेच्छानुकूलव्यापार इति बोधः'। (२) 'इष्यते पुत्रः' इत्यत्र च व्यापारजन्यपुत्राभिन्नकर्मकेच्छा' इत्याकारकः इतिभिन्नार्थकत्वम् । (३) न केवला प्रकृतिः प्रयोक्तव्या नापि केवलः प्रत्ययः' इति तस्य स्वरूपम् । अत्र बीजं 'परश्च' (पा. सू. ३२११२) इति सूत्रम् । तथाहिप्रत्यय विधौ सर्वत्र प्रकृतेः पंचम्यन्ततया 'तस्मादित्युत्तरस्य' इति परिभाषया परस्येत्यंशोपस्थितौ प्रत्ययस्य प्रकृतेः परस्यैव लाभात् 'परश्च' इतिसूत्रं व्यर्थीभूय प्रत्ययः परोभवत्येव इति नियमार्थम । तेन नकेवलेतिन्यायो लब्धः। न्यायफलच प्रकृत्यर्थमात्रविवक्षायां कलपकते पच्, पत्' इत्यादेप्रयोग इत्याद्यन्यत्रविस्तरः ।
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy