________________
धात्वर्थनिर्णयः ।
इत्थञ्च पचतीत्यत्रैकाऽऽश्रयिका पाकाऽनुकूला भावना । पच्यते इत्यत्रैकाऽऽश्रया या विक्लित्तिस्तदनुकूला भावनेति बोधः ।
मान्तार्थविशेष्यकबोध एव नैयायिकानाम् । कचित्तु पश्य मृगो धावतीत्याद्येकवाक्यताऽनुरोधात् तिङर्थ भावनाविशेष्यकोऽपि सः । तथाहि वैयाकरणैरुक्कस्थलो येक शक्यतानुरोधाद्धात्वर्थभावनाप्रका रकबोधे धातुजन्यभावनोपस्थितेर्हेतुता कल्प्यते ।
,
नैयायिकैस्तु कर्मतासम्बन्धेन तिर्थभावनाप्रकारकबोधे धातुजन्यभावनोपस्थितेस्तदिति सममेव । 'देवदतः पचतिभवति' इत्येकवाक्यतानुरोधात्प्रथमान्तार्थ कर्तृप्रकारक बोधे तिङर्थभाव नोपस्थितेरपि - तत्कल्प्यते । तथाचोक्तस्थल आधेयतासम्बन्धेन मृगविशिष्टधावनाऽनुकूलकृतेः कर्मतया दृश्यर्थेऽन्वये मृगनिष्ठा या घावनाऽनुकूला क तिस्तत्कर्मदर्शनाऽऽश्चयस्त्वमिति वाक्यार्थबोध: । धावनविशिष्टकृतौ च बोधितकर्मत्वस्य, "सविशेषणे हि” इति न्यायाद्धावने पर्ववसानाश्च प्रतिषिपादयिषितार्थस्याऽपि लाभः । नाऽपि मृगपदोन्तरं द्वितीयाऽऽपत्तिः, मृगकर्मताया एतदूवाक्यादलाभात् । एवञ्च, 'पचति भवति' इत्यत्राऽपि 'प्रथमान्तार्थ कर्तृविशिष्टा पाककृति वर्त्तमानभावनाऽऽश्रयिका' इति बोधात् तत्राऽप्येकवाक्यत्वाऽक्षतिः । एवञ्च 'प्रकृतिप्रत्ययार्थयोः' इतिन्यायाऽविरोधेनैव भाष्यकारोक्तपदेकवाक्यता न्यायनयेऽपि सुपपादेत्यलं परमतानुवर्णनेन ।
फलितमाह *इत्थञ्चेति* । आख्याताऽर्थकर्त्तृ प्रकारकबोधं प्रति - धात्वर्थभावनोपस्थितेस्ता दशकर्मप्रकारकबोधे ताहशफलोपस्थितेहेतुत्वं चेत्यर्थः । भावनेत्यस्य वर्त्तमानेत्यादिः । कर्माssख्याते भावनाविशेष्यक बोधोपवर्णनं तु प्राचामनुरोधेन ।
नव्यास्तु – कर्मकृति फलविशेष्यबोधस्य दृष्टत्वेन कर्माख्याते . -पि तदविशेष्यकबोध एव न्याय्यः । एवञ्च प्रत्ययार्थे साक्षात्प्रकृत्यर्थविशेष्यान्वयित्वमिति व्युत्पत्तिरपि न विरुज्यते । अत एव 'इष्यते पुत्रः' इत्यर्थे पुत्रीयतीति न भिन्नार्थकत्वात्। किन्तु पुत्रमिती
9