SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ दर्पणसहिते वैयाकरणभूषणसारे 'तण्डुलं पचति' इत्यादौ विभक्त्यर्थकर्मत्वसम्बन्धेन ताडशबोधः प्रसिद्ध इति चेत्तर्हि ताशबोधे द्वितीयान्ततण्डुलपदसमभिव्यात. पचतात्यानुपूर्वीशानस्य हेतुतया तदभावादेवाऽऽपाद्यस्याप्यऽस. म्भवात् । तदुक्तं, 'यादृशं फलं क्वचित प्रसिद्धं तादृशस्यैवाऽऽपत्तिः सम्भवति' इति । ___एतेन, पश्य लक्ष्मणेत्यत्र "अस्तिर्भवन्ती (१) परोऽनुप्रयुज्यमानो ऽप्यस्ति" इति भाग्यस्थाऽपिशब्दस्वारस्येन वाक्यपरिपोषकक्रिया. न्तराऽभावेऽस्तेरध्याहार इत्यर्थलाभेन प्रकृते वाक्यपरिपोषिकाया दर्शनक्रियायाः सत्त्वेन तदध्याहारे मानाभावात् कर्मतासंसर्गेणा. ऽन्वयोऽनुपपन्न इति दूषणमलग्नकम् । एवञ्चाख्याते प्रथमान्तपदस. मभिव्याहारे प्रायः प्रथमान्तार्थविशेष्यकबोधो निराबाधः । अत एव, 'यो यः शूद्रस्य पचति द्विजोऽन्नं सोऽतिनिन्दितः' इत्यत्र प्रधानप. रामर्शितदो द्विजपरामर्शकत्वमनायासेनसं गच्छते। ननु प्रथमान्तार्थविशेष्यकबोधवादिमते, 'पचतिकल्पं चैत्रः' "पचताकल्पं चैत्री" इत्यादौ कल्पबाधन्तस्य नामतया तद्विशेषण. वाचकतया च प्रथमान्तचैत्रादिपदसमानलिङ्गवचनत्वाऽऽपत्तिरा. ख्यातार्थकृतेः प्रथमान्तार्थचैत्रादावभेदान्वयापत्तिश्चेति चैन्न । स्वाथिकानां प्रायशः प्रकृत्यताऽवच्छेदकगतकुत्लादिद्योतकतया प्रकृते प्रकृत्यर्थताऽवच्छेदकक्रियागतेषदसमाप्तत्वस्य कल्पपा द्योतनात् सस्वासत्त्वाभ्यां प्रकृत्यर्थतावच्छेदकसमानस्य भावेषदसमाप्तत्व. प्रतिपादककल्पबाद्यन्ते नपुंसकैकवचनान्तत्वयोरौचित्यात् । कल्प. बाद्यन्तस्य नामत्वेन समानविभकिकत्वेन च तदर्थस्य चैत्रेऽभेदा. ऽन्वयाऽऽपत्तिरिति तु मूर्खप्रलपितत्वादनादेयम् । लक्ष्यार्थकत्तुंरभे. दान्वयस्येष्टत्वात् । शक्यार्थस्य त्वयोग्यत्वादेवानन्वयात् । 'घटः पट' इत्यादौ व्यभिचारवारणाय व्युत्पत्तावसति बाधके इति विशेषणाबेत्याहुः। अत्रेदमाभाति-प्रथमान्तकर्तृवाचकपदसमभिव्याहारे प्रायः प्रथ. (१) 'भवन्ती' इति लटः संज्ञा प्राचाम् । 'आस्ति' इति सत्तार्थकधातूनामुपलक्षणम् । तथाच लट्परा सत्तार्थकधातवे।ऽप्रयुज्यमाना मपि अध्याहियन्ते इत्यर्थः :
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy