________________
धात्वर्थनिर्णयः। कर्मत्वे प्रतिपिपादयिषिते, नीलं घटं जानाति' इत्यादौ द्वितीयानुपपत्तिरित।
अत्र नैयायिकाः धावनक्रियाकर्तृत्वावरुद्धमृगस्य कर्मतासम्ब. न्धेन दृश्यर्थेऽन्वयोपगमात् न पदैकवाक्यताभङ्गः । तदवरुद्धत्वं च तदन्वयितया तात्पर्य्यविषयत्वम् । नचैवं कर्मतासंसर्गेण तण्डुलस्याऽप्यन्वयसम्भवात् 'तण्डुलः पचति' इति प्रयोगापत्तिरिति वाच्यम् । यतो न वयं सामान्यतः कर्मत्वादिभेदसम्बन्धेन नामार्थस्य धात्वर्थ ऽन्वयमभ्युपेमः, किन्तु क्रियान्तरकतत्वाऽवरुद्धस्य । नच तण्डुल. स्तथा, येन पच्याद्यर्थे तस्य कर्मतासंसर्गः स्यात् । अत एव 'काष्ठं भस्मराशिः करोति' इति न प्रयोगः। भस्मराशेः कर्तत्वानवरुद्धत्वात् । 'काष्ठं भस्मराशिः क्रियते' इत्यादी कर्मत्वान्तरावरुद्धक्रियायां तु तदनवरुद्धस्यापि व्युत्पत्तिवैचित्र्यात् । तस्य तत्र तत्संसर्गत्वाऽनभ्युपमे वाक्याऽभेदाऽऽपत्त्या तद्वाक्यजबोधस्य, 'काष्ठं नाश्यते' 'भस्म क्रियते' इति वाक्यद्वयजबोधस्येव 'भस्मकाष्ठविकृतिरन्य. विकृतिा' इति संशयनिवर्तकत्वानापत्तेरित्याद्यन्यत्र प्रपश्चितम् ।
एवं चाऽत्र पदैकवाक्यताया अनायासेनैवोपपत्तौ भावनाप्रका. रकबोधे धात्वर्थभावनोपस्थितेहेतुत्वं निष्प्रमाणकमेव । नाऽपि मृगपदोत्तरं द्वितीयाऽऽपत्तिः। प्रातिपदिकार्थविशेष्यतया कर्मत्व. स्याऽविवक्षणात् । अत एव न तत्र षष्ठीप्रसंक्तिरपि । संसर्गस्य प्रा. तिपदिकार्थविशेष्यतया विवक्षायामेव, “षष्ठी शेषे (पा. सु. २३२५०) इत्यनेन तद्विधानात् । एवं, 'घटो नास्ति' इत्यादावपि बोध्यम् । किन्तु प्रातिपदिकार्थे तत्र प्रथमैव ! नाऽपि, 'नीलं घटं जानाति' इति प्रयोगाऽनुपपत्तिः । घटस्य क्रियान्तरकर्त्तकत्वाऽनवरुद्धत्वेन कर्मत्वान्तरविशेषणतानापन्नायां जानात्यर्थक्रियायां कर्मतायाः संसमैत्वाऽसम्भवात् ।
'पश्य लक्ष्मण पम्पायां बकः परम धार्मिकः'।
इत्यादावस्तीत्यध्याहार्यम् (१) । वस्तुतस्त्वेतत् दृष्टान्तेन, 'त. ण्डुलः पचति' इत्यादी बोधाऽऽपादनं न विचारसहम् । कर्मताऽन्व. यसंसर्गकपच्यर्थविशेष्यकबोधस्याप्रसिद्धौतथाऽऽपादनासम्भवात् ।
(१) तेन न बकपरमधार्मिकशद्वाभ्यां द्वितीयाप्रसक्तिरितिभाषः ।