________________
दर्पणसहिते वैयाकरणभूषणसारे
वनाशकारकबोधे प्रथमान्तपदजन्योपस्थितिः कारणमिति नैयायिकाक्तं नादरणीयम् । किन्तु, आरुपातार्थकर्त्तृप्रकारकबोधे धातुजन्योपस्थितिर्भावनात्वाच्छन्नविषयतया कारणमिति कार्यकारणभावो द्रष्टव्यः । भावनाप्रकारकबोधं प्रति तु, कृज्जन्योपस्थितिवद् धात्वर्थभावनोपस्थितिरपि हेतुः । ' पश्य मृगो धावति' 'पचति भवति' इसाद्यनुरोधादिति दिक् ।
४६.
तत्पदेन मृगस्य, धावनाऽनुकूलकृतिमन्मृगस्य वा परामर्शेऽपीप्सितताराधावनक्रियायां दृश्यर्थकर्मत्वान्वयस्य तद्वाक्याद्भानाऽनुपपकेरित्यर्थः । उपसंहरति • एवश्चेति । आख्यातार्थविशेष्यकबोधाऽङ्गीकर्तृनये एकवाक्यताऽनुपपत्तिरूपदृषणदा ढयें चेत्यर्थः । नादरणीयमिति । उक्तदोषग्रस्तत्वादिति भावः । स्वमतनिष्र्कषमाह * किन्त्विति । फले व्यभिचारनिरासायोपस्थितिविशेष्यतां वि. शिनष्टि *भावनात्वावच्छिन्नेति ।
ननु कृत्स्थले त्वन्मतेऽप्याख्यातस्य धात्वर्थमुख्यविशेष्यक बोधजनकत्वनियमभङ्गप्रसङ्गोऽत आह *पश्येति । तथाचोक्तानयम एतदतिरिक्तविषयक इति भावः ।
ननु धावनकर्त्तत्वविशिष्टमृगरूपवाक्याऽर्थस्य कर्मतया दर्शने. ऽन्वयः (१) । तथाच न "नामार्थयोः" इति व्युत्पत्तिविरोधः । वाक्यस्यानामत्वात् । अत एव न ततो द्वितीयापत्तिरपि । धावनविशिष्टस्य दर्शनकर्मत्वाऽवगतौ विशेषणीभूतधावनस्यापि कर्मताला : भाश्च न प्रतिपिपादयिषितान्वयालाभोऽपि । 'चैत्रः पचति भवति' इत्यादी तक्तदिशेकवाक्यत्वमुपपपदितमेव । तथाचोक्त कार्यकारणभावकल्पे कथं तदनुरोधो बीजमत आह * दिगिति तदर्थस्त्वेवं.
वाक्यैकवाक्यताप्रतिपादने भाष्यकृत्संमतपदेकवाक्यतया प्र तिपिपादयिषितान्वयालाभ एव । किं चाभेदेन नीलविशिष्टघटस्थ
(१) अनयैव रीत्या 'श्रुत्वा ममैतन्माहात्म्यं तथाचोत्पत्तयः शुभाः । इत्यस्योपपत्तिः । अन्यथा 'उत्पत्तिशुभशब्दाद्वितीया स्यादिति ।