SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ धात्वर्थनिर्णयः। . धावनक्रियाविशेष्यस्य दृशिक्रियायां कर्मत्वापत्तौ द्वितीयापत्तेः। नचैवं प्रथमासामानाधिकरण्यात् , शतृप्रसङ्गः। एवमपि द्विती. याया दुरित्वेन, पश्य मृग इत्यादिवाक्यस्यैवाऽसम्भवापत्तेः । नच पश्येत्यत्र तमिति कर्माध्याहार्यम् । वाक्यभेदप्रस. ङ्गात् । उत्कटधावनक्रियाविशेषस्यैव दर्शनकर्मतयाऽन्वयस्य प्रतिपिपादयिषितत्वाद, अध्याहारेऽनन्वयापत्तेश्च । एवञ्च भा. प्यकबोधजनकत्वरूपैकवाक्यत्वाऽभावात् तद्विरोधो दुर्वार इति भावः। . ननु धावनाऽनुकूलकृतिमन्मृगस्यैव कर्मतया दृश्यर्थेऽन्वयानोतदोषोऽत आह *प्रथमान्तेति*। *कर्मत्वाऽऽपत्ताविति ।कर्मत्वेन प्रकारतापत्तावित्यर्थः। कर्मतासम्बन्धेन मृगस्य दर्शनकियायायामन्वयस्त्वसम्भवी । “नामार्थधात्वर्थयोः" इति व्युत्पत्तिविरोधात्, वक्ष्यमाणद्वितीयाऽऽपादनविराधाश्चेति भावः। द्वितीयापत्तेरिति*। कर्मणोऽत्र तिङाऽनभिधानेनाऽनभिहिताधिकारीय कर्मणि द्वितीया' (पा० सू० २।३।२) इत्यस्य जागरूकत्वादिति भावः ॥ *पवमिति । मृगपदोत्तरं द्वितीयाप्रसङ्गे इत्यर्थः । शतृशान. विधौ लडर्थकत्तुंः प्रथमान्ताऽर्थसामानाधिकरण्येन विशेषितत्वामृगपदस्य द्वितीयान्तत्वे तदापत्त्या द्वितीया न भविष्यतीति शकि. तुराशयः। न हि शत्रापत्तिद्धितीयाप्रतिबन्धिका, किन्तु कर्मणोऽभि. धानम् । तदभावसत्त्वाच्च द्वितीया दुर्वीरेत्याशयेन समाधत्ते एवमपीति । असम्भवापत्तरिति* । मृगस्य कर्मतया दृश्यर्थेऽन्वयोपग. मे धावन्तं मृतं पश्यति वाक्यस्यैवोचितत्वादित्यर्थः। ननु "अर्थैक्यादेकं वाक्यं साकाङ्कञ्चेद्विभागे स्या" (पू० मी० अ० २ पा० १ अ १४ सू०४६) इति जैमिनिसूत्राद् विच्छिद्य पाठे सीकाङ्गत्वे सत्येकार्थप्रतिपत्तिजनकत्वमकवाक्यत्वमित्यर्थी लभ्यते । प्रकृते तमित्युक्ते कमित्याकांक्षासत्वाद्यथाकथञ्चिद्वाक्यद्वयस्य धा. बनाऽनुकूलकृतिमन्मृगकर्मकदर्शनरूपैकार्थप्रतिपादकत्वाच न वा. क्यभेदप्रसङ्गोऽत आह *उत्कटेति*। *अध्याहार इति । पूर्वाग्नु. पाताकालितपदस्याऽनुसन्धाने इत्यर्थः । *अनन्वयापत्तश्चेति ।
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy