SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ दर्पणसहिते वैयाकरणभूषणसारे .. अपिच आख्यातार्थप्राधान्ये तस्य देवदत्तादिभिः सममभेदान्वयात् प्रथमान्तस्य प्राधान्यापत्तिः। तथाच, पश्य मृगो धावतीसत्र भाष्यसिद्धैकवाक्यता(१) न स्यात् । प्रथमान्तमृगस्य विशेष्यतापनभावनौपस्थितेहेतुत्वस्यापि कल्पनेनोक्तदोषाप्रसक्तः। मच चैत्रे पाकानुकुला कृतिरित्यत्रेव, चैत्रः पचति भवतीत्या. दो सप्तम्याऽऽपत्तिर्दुारैवेति वाच्यम् । धात्वर्थविशेषणभूताधेयत्वस्य प्रातिपदिकार्थविशेष्यतया विवक्षायामेव सप्तमीविधानात् । एवमा. धेयत्वस्य प्रकारतयाऽविवक्षणाश्च । इदं चाख्यातार्थकृतिमुख्यविशे. प्यकबोधमभिप्रेत्योक्तम् । वस्तुतस्तु, चैत्रः पचति भवतीत्यादौ प्र थमान्तार्थविशेष्यकबोधाभ्युपगमेऽपि नैकवाक्यताक्षतिः। भवनकर्तृत्वाऽन्विताया एव पाकविषयकभावनायाश्चैत्रांशे प्रकारतया भा. नसम्भवात् । एतेन कृतिविशेष्यकबोधाभ्युपगमे प्रथमान्तार्थप्रकारकबोधे तिअर्थविशेष्यतापनभावनोपस्थितेहेतुत्वकल्पने गौरवमिति दूषणमल. मकम् । विशेषणतयैव तदऽन्वयाभ्युपगमादित्यरुचेराह*अपिचेति । अभेदान्वयादिति । इदं च तन्मतेऽपि कर्ताऽऽख्यातार्थ इति स्वीय. घासनाऽनुसारेण । नैयायिकमते तु कृतेराख्यातार्थतया तस्या आ. श्रयत्वेनैव प्रथमान्तपदाऽर्थेऽन्वयादित्यवधेयम् ॥ *भाष्यसिद्धति । “क्रियाऽपि कृत्रिमं कर्म, क्रियापि हि क्रियये. सिता भवति कया सन्दर्शनप्रार्थनादिक्रियया" इति "कर्मणायम" (पा० सू०१।४।३२) इति सूत्रस्थभाष्यसिद्धेत्यर्थः । तन्मते धा. घनाऽनुकूलकृतिमान् मृग इत्यावान्तरवाक्यार्थबोधस्य तत्र जाय. मानत्वेन धावनस्य कर्बवरुद्धतया विशेषणतयाऽन्यत्राऽन्वये नैरा. काङ्गयेण दर्शने कर्मतयाऽन्वयाऽयोगात । किन्तु धावनानुकूलकृतिमान् मृगो दर्शनाश्रयस्त्वमित्येव बोध एष्टव्यः । एवञ्चैकमुख्यविशे__(१) "तद्यत्रोभे भावप्रधाने" (नि० अ२।१।१०) इतिनिरुक्त. विरोधोपि द्रष्टव्यः । अस्यार्थश्च यत्र वाक्ये उभे नामाख्याते स्तस्तत्र भावप्रधाने भवत इति ।
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy