SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ धात्वर्थनिर्णयः। आख्यातार्थकतुरनामधात्वर्थत्वेन "नामार्थधात्वर्थत्वयोः" इति व्युत्पत्तिविषताया अप्यभावात् ।। नच तवापि चैत्रस्य पाकानुकूला कृतिरिति चैत्रस्य पचतांति प्रयो। गापत्तिरिति वाच्यम् । षष्ठ्यर्थस्य नामार्थसाकाङ्क्षतयाऽऽख्यातार्थकृते. श्व प्रथमान्तार्थसाकाङ्कतया परस्पराकालाविरहात् । “गुरुविप्रतपस्विदुर्गतानाम्" इत्यदाविव पाकादिसम्बन्धितया चैत्रादिविवक्षायां षठ्यन्तप्रयोगस्य सर्वैरेवोपगमाश्च । तस्माद्धात्वर्थक्रियाया आख्या. तार्थ प्रति प्राधान्ये निरुक्तमानोरन्यसनं मुधैवेति कोविदा विदाकुर्वन्तु । पचति भवतीत्यादौ पाकानुकूलाऽऽख्यातर्थकृती भवनाश्रयत्व. रूपभवतीति तिङनार्थभावनाऽन्वयोपगमेन पाकविशिष्टकृती भ. धनकर्तत्वेऽवगते तद्विशेषणपच्यर्थक्रियायामपि तल्लाभात् “पच्या. दयः क्रिया: भवतिक्रियायाः कर्यो भवन्ति" इतिभाष्यस्थादिप. दस्य हेतुपरतया तेन व्यापाराऽर्थकपचादिशब्दस्य समासे पच्याद्यर्थहेतवः क्रियाः कृत्यात्मकव्यापारा भवनक्रियानिरूपितकर्तृत्ववत्यो मवन्तीत्यर्थस्य तस्माल्लाभाद् वा तादृशैकवाक्यत्वस्याऽस्माभिर• भ्युपगमान्न भूवादिसूत्रस्थभाष्यविरोधोऽपि । तादृशभाष्यप्रामाण्यादेव च भवन्मते धात्वर्थप्रकारकबोधे धातुजन्योपस्थितेर्हेतुत्ववन्मन्मतेऽप्याऽऽख्यातार्थभावनाप्रकारकबोधे तिजन्यभावनोपस्थिते. रपि विशेष्यतासन्बन्धेन हेतुत्वस्य कल्प्यतयोक्तैकवाक्यत्वस्य सूपपादत्वात्। __न चोक्तबोधाभ्युपगमे आख्यातेन कर्तुरबोधनाच्चैत्रादिपदोत्त. (१)तृतीयाऽऽपत्तिरिति वाच्यम् । तादृशप्रथमांतार्थप्रकारकबोधे विशेष्यतया तिङ्जन्यांपस्थितहेतुतया तस्यां चैत्रस्याऽऽधेयतासम्ब. न्धेनाऽन्वयाभ्युपगमेन मुख्यविशेष्यतयैव तद्भानेन आश्रयातिरिक्तांशे विशेषणतया कृत्याश्रयबोधनरूपस्याभिधानस्य तत्र सत्वानृती. याऽऽपत्यसम्भवात् । नच चैत्रः पचतीत्येतावन्मात्रप्रयोगऽपि चैत्रस्याऽऽधेयतासम्ब. न्धेनान्वयाऽऽपत्तिरिति वाच्यम् । प्रथमान्ताऽर्थप्रकारकबोधे तिङ. (१) अनभिहिताधिकारीय 'कर्तृकरणयोस्तृतीया' (पा सू०२। ३।२) इतिसूत्रेणेतिशेषः ।
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy