SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ ४२ दर्पणसहिते वैयाकरणभूषणसारे किञ्च, कर्तृकर्मणोः पदार्थकदेशतया तत्र देवदत्तादीनामन्वयाऽसम्भवः । “पदार्थः पदार्थेनाऽन्वेति" इति (१)व्युत्पत्तेः । तदन्वया. ऽभ्युपगमेऽपि धात्वर्थे ऽभेदेन विशेषणतया स्तोकादिपदवन्नपुस. कत्वाऽऽपत्तिश्च । अपिच, क्रियाविशेषणवेनोपस्थितस्य कनुर्विशे. घेणाऽऽकालाविरहात् पचतीत्युक्ते, कः कीदगिति प्रश्नाऽनुपपत्तिः । पक्ष्यति(२)हि ग्रन्थकृत्-'नहि गुणभूतः कर्ता निषेधं स्वाङ्गत्वेन ग्रही. तुमलम्' इति । अत एवैतत्प्रामाण्यात् प्रत्ययवाच्यत्वं, कर्तुर्धात्वर्थविशेषणत्वं चेति गर्जन्तः परास्ताः । प्रत्ययस्य धोतकतायामेव त. निर्भरस्य दर्शितत्वात् । प्रत्ययार्थप्राधान्यस्यैव ततो लाभाच्च । नच भावनायाः प्रत्ययवाच्यतापक्षेप्युक्तप्रश्नाऽनुपपत्तिर्दुःसमा. धेयैवेति वाच्यम् । शक्तिभ्रमालक्षणया वोपस्थितस्य कर्तुः साकासत्वसम्भवात् । किञ्च, 'प्रत्ययानां प्रकृत्यर्थाऽन्वितस्वार्थबोधकत्वम्' इतिन्यु. त्पत्तिसिद्धविभक्त्यर्थसङ्खयाप्रकारकबोधं प्रति विशेष्यतया प्रकृतिजन्योपस्थित हेतुत्वस्य कोदावभावेन सङ्ख्याऽन्वयाऽसम्भवः । आ. ख्यातार्थसङ्खन्याप्रकारकबोधे आख्यातार्थकर्तृकर्मोपस्थितर्हेतुन्वक ल्पनमप्याग्रहमूलकमेव । पदार्थयोराधाराधेयभावेनाऽन्वये विभिन्न. पदजन्योपस्थितेस्तन्त्रत्वात् । विभक्त्यर्थकर्नुर्लिङ्गानन्वयिनोऽद्रव्य तया तत्र सङ्ख्यान्वयासम्भवात् । “गुणानां च परार्थत्वाद्" इति न्यायाच्च । मन्मते अयोग्यतया तस्याः स्वप्रकृत्यर्थानन्वयेऽपि प्र. कृत्यर्थान्वयनियमोऽक्षत एव । “अणुरपि विशेषोऽध्यवसायकर" इति न्यायात् । किचाऽऽख्यातस्थ कर्थकत्वे राजसम्बन्धिपुरुषाऽभिन्नकत्र्तक गमनमित्यभिप्रायेण, राज्ञः पुरुषो गच्छतीतिवत् स्वस्वामिभावादि. सम्बन्धेन राज्ञः कन्वयविवक्षया, राजा पुरुषो गच्छतीति प्रयो। गापत्तिः। नच तत्र षष्ठीप्रसक्तिः । तदर्थस्य प्रातिपदिकार्थविशेष्य. तया विवक्षायामेव तत्प्रसरात् । व्यक्तीभविष्यति चैतदुपरिष्टात् । (१) 'न तु पदार्थकदेशेन' इति तस्याःशेषः । अस्याः स्वीकारादेव 'नीलोघट' इत्यत्र न नीलपदार्थस्य घटपदार्थंकदेशे घटेत्वेऽन्वय इति बोध्यम् । . (२) भेद्यभेदक संबन्धोपाधीत्यादिकारिकाव्याख्यानावसरे इति ।
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy