________________
४१
- धात्वर्थनिर्णयः। प्राधान्यापत्तेः। आत्यतिरिक्तपदार्थस्य विशेषणताया घोस्यत्वस्यैः घ तन्त्रत्वात् । अत एव, “स्त्रियाम्" ( पा० सू० ४.१३) इति सूत्रे भाष्ये प्राधान्याऽऽपत्तिभिया लिङ्गस्य वाच्यतापक्ष उपेक्षितः । वाच्यस्यापि प्रकृत्यर्थविशेषणत्वे तदसङ्गतिः स्पष्टैव ।।
न चोक्तकल्पे, 'ग्रामं गच्छति' इत्यत्र कर्मबोधवद्धातोरपादाना. दिकारकविशिष्टक्रियाबोधाऽऽपत्तिः । पञ्चम्यादिरूपसमभिव्याहृतः द्योतकधिभक्तेरभावात् । तत्र कर्तृकर्मणोस्तिसमभिध्याहृतद्विती. यादिविभक्तिश्च धोतिका, अन्येषां त्वन्याः न हि स्वप्रकृतिकप्रत्य. यत्वमेव स्वार्थद्योतकतायां तन्त्रम् । उपसर्गाणां तदनापत्तः । किन्तु, स्वसमभिव्याहृतप्रत्ययनिषातान्यतरत्वम् । तच तण्डुला. दिपदोत्तरविभक्तरप्यऽक्षतम् । द्रव्यस्य संख्याऽविशेषितस्य तत्वे नाम्नः संख्याभानाऽऽपत्त्या तदर्थकत्वम् आवश्यकमिति तद्भावः । मत एव "भावकालकारकसङ्ख्याश्चत्वारोऽर्था आख्यातस्य" इति भाष्यस्थकारकपदस्याऽसङ्कचितवृत्तिताऽपि सङ्गच्छते।
यदि चान्यप्रकृतिकविभक्तेरन्यप्रकृत्यर्थद्योतकतायाः क्याप्यदृष्टः चरत्वानोक्ताऽऽशयवर्णनं साधीय इति विभाव्यते, तदापिसंख्याकाल. कर्तृकर्मकारकविशिष्धक्रियाया धात्वर्थत्वमादाय तत्प्रवृत्तिः। आ. ख्यातस्यैव तादशक्रियाद्योतकतासम्भवात् ।
न चास्त्वेवमेवाऽऽशयः । वाच्यताकल्पोक्तकार्यकारणभावकल्पनप्रयुक्तलाघवस्योपोद्वलकत्वादिति वाच्यम् । यत् ताहशमतं प्रक्रियादशायां चक्षुःश्रुत्युक्तिविश्वस्तैरप्याश्रयितुमशक्यम् , प्रागेव तुप्रकृतिप्रत्ययाऽर्थविवेचनचतुरराक्षपादैः। तथाहि । कारकविशिष्ट क्रियाया धात्वर्थत्वे, 'लः कर्मणि' इति विधिवैयर्थ्यापत्तिः। नच तस्य द्योतकत्वप्रतिपादकता । शानजादेरपि तथात्वाऽऽपत्त्या तत्रापि कर्नादीनां क्रियाविशेषणतया भानापत्तेः।
किश्च, चैत्री पचत इत्यादौ चैत्रादिगतसंख्यायास्तत्रारोपे मा. नाभावः । वाचकतामते कर्नाद्यशे तद्भानोपगमेन प्रयोगप्रामाण्यो. पपत्तावप्रामाण्याऽभ्युपगमस्याऽन्याय्यत्वात् । स्वाश्रयाऽधेयत्वसं. बन्धेन द्वित्वादेस्तत्रसत्त्वेऽप्यव्यावर्तकतया विशेषणत्वाऽभावेन तद्वैशिष्टयस्य तत्राऽसम्भवाच्च । न हि द्वित्वाश्रयाश्रितं घटाऽऽदिरूपं, क्रिया वा, द्वे इति व्यवहियते । अधिकमग्रे वक्ष्यते ।