________________
Yo
दर्पणसहितेः वैयाकरणभूषणसारे
" कथं ज्ञायतेऽयं प्रकृत्यर्थोऽयं प्रत्ययार्थ” इति प्रघट्टकेऽन्वयव्यतिरे काभ्यां शक्तिग्राहकम् - " इह पचतीत्युक्ते कश्चिच्छन्दः श्रूयते, पच्श ब्दश्वकारान्त अतिश्चप्रत्ययः । अर्थोऽपि कश्चिद् गम्यते, विक्लित्तिः कर्त्तृत्वमेकत्वम् । पठतीत्युक्ते कश्चिच्छन्दो हीयते कश्चिदुपजायते, कश्चिदन्वयी । पच्छन्दो हीयते, पठ्शब्द उपजायते, अतिशब्दचान्वयी । अर्थोऽपि कश्चिद्धीयते कश्चिदुपजायते, कश्चिदन्वयी । विक्लित्तिर्हीयते, पठिक्रियोपजायते, कर्त्तृत्वमेकत्वं चान्वयि । तेन मन्यामहे यः शब्दो हीयते यस्याऽसावर्थो योऽर्थो हीयते, यः शब्द उपजायते तस्याऽसावर्थे योऽर्थ उपजायते, यः शब्दोऽ न्वयी तस्याऽसावर्थो योऽर्थोऽन्वयी" इति भाव्यम् । तत्राऽतेः प्रत्ययस्य कैश्चित्पूर्वाचार्यैः कल्पनादू, अतिश्च प्रत्यय इत्युक्तमिति कैयटः । पच्यते पठ्यते इत्यादावप्युक्ताऽन्वयव्यतिरेकोहेन कर्मवस्याप्याख्यातार्थत्वं न्यायसाम्यात ( १ ) तत एवाऽवधार्य्यते । किञ्च, भावप्रधानम्" इति निरुक्तम् तद्भाष्यस्वरसात् संकलकारकसङ्कया विशिष्टभावनाया धात्वर्थत्वमाश्रित्य प्रवृत्तम् । अत एव; नामलक्षणनिर्वचनेन कारकस्य तत्र नामार्थत्वेनोल्लेखः । तस्य धातुलभ्यत्वेन नामार्थत्वाभावादिति तदाशयात् ।
नच रूप सूत्रस्थभाष्यप्रामाण्यात् क्रियायामेकत्वसत्वेऽपि द्वि. त्वादिसत्वे मानाभावात् कथं तथोक्तसङ्गतिरिति वाच्यम् । परेत्वित्यादिना वक्ष्यमाणरीत्या कारकगतायास्तस्यास्तत्राऽऽरोपसम्भवात् । कालसङ्कययोद्यत्यत्ववत् कारकस्यापि द्योत्यत्वं न्यायसाम्यात् । तस्यप्रत्ययार्थत्वोपगमे पाचकःपक्क इत्या ( २ ) दाविव
(१) न्यायसाम्यादिति न्यायसाम्यत्वं च यथा पठतीत्यत्र पच्छ द्वो हीयते पठशब्द उपजायते अतिशब्दश्चान्वयी अर्थेषु कर्तृत्वमेक त्वचान्वयि तयोरन्वयिनोर्वाच्यवाचकभावः । तथा पठ्यते इत्यत्रपच शब्दो हीयते, पठ उपजायते, तेशब्दः कर्मत्वम केत्वञ्चान्वयि तयोर्वाच्य वाचकभाव इति ।
(२) पाचकः पक्क इत्यादाविवेति । 'कर्तरिकृत् (पा० सू० ३।४।६) इतिसूत्रेण कृतां कर्षर्थत्वं, प्रकृतिप्रत्ययावितिन्यायेन तस्य प्राधान्यं च सर्वसंमतम् । तथात्रकारकस्य प्रत्ययार्थत्वे तस्य प्राधान्यंस्यादितिभावः ।