SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ .. धात्वर्थनिर्णयः । १९ नि० अ० १ ख०,१ निरुक्तात् । भूनादिसूत्रादिस्थक्रियामाधाभ्यबोधकभाष्याच्च धात्वर्थभावनामाधान्यमध्यवसीयते । जातिप्रकारतानिरूपितत्वस्यातिप्रसङ्गाऽवारकत्वात्तदनुपादानम् ।ल. स्यतावच्छेदकाऽनाक्रान्तेषु याहाच्छकंप्वतिप्रसङ्गस्तु लक्षणे तव्य. तिरिकत्वविशेषणेनैव परिहरणीयः। एवं धात्वर्थाऽनुवादकप्रत्य: यान्तेष्वप्रसङ्गोऽपि लक्ष्यतावच्छेदकसंकोचेनैव परिहार्यः । तत्र मामत्वव्यवहारोऽपि स्वाद्यन्तत्वनिबन्धनो भाक्त इति तद्भावः ! उपसर्गादिलक्षणं तु वक्ष्यते। ___ *भूवादीति । इत्थं हि तत्र भाज्यम् "का सहीये वाचोयुक्तिः पचति भवति त्वं पचसि भवसि, पक्ष्यति भवतीति । सैषा वाचोयुक्तिः । पचादिक्रिया भवतिक्रियायाः कयों भवन्ति" इति । तेन चऽऽहत्यैव (१)पचाद्यर्थक्रियाकर्तृकभवन. क्रियायाः प्राधान्यं प्रतिपाद्यते । धात्वर्थक्रियाया आख्यातावि. शेषणत्वाभ्युपगमे तु स्वस्वार्थविरुद्धत्वेन पदार्थान्तरे विशेषणतयाऽन्वये नैराकालयेण भवत्यर्थक्रियायामाख्यातार्थविशेषणपचादि. क्रियाणामन्वयाऽसम्भवेन तद्विरोधोऽप्रतिरोध एव स्यादिति भावः । सत्रादीत्यादिमा, "प्रशंसायाम्"(पासू०५९।६६) इति सुत्रपरिग्रहः। ननु 'भावप्रधानमाख्यातं' इति निरुक्तेन तिङन्ते भावनाऽपरप. र्यायभावप्राधान्यं प्रतिपाद्यते । सा च नैयाबिकमते कळख्याते कर्तृत्वं कृतिः, कर्माख्याते कर्मत्वं फलं, सनिरूपिताऽऽश्रयत्वं वा। तैः सङ्ख्याकालातिरिक्ताऽऽख्यातार्थस्य भावनापदव्यपदे. श्यत्वोपगमात् । भावाऽऽख्याते तु धात्वर्थव्यापार एवाऽनुपादकत्वात तदाख्यातस्य । प्राधान्यं च तस्याः प्रकृत्यर्यापेक्षम् । समानप्रत्ययोपात्तत्वप्रत्यासत्या फलमात्रं धात्वर्थ इति वदतां. मीमांसकानामेतदपिभाष्यं मूलम् । तत्र लडाद्यर्थकालान्वयोपगमे तु तदपेक्षमपि। उक्तभायेऽपि क्रियापदार्थस्तत्सम्मतभावनैव । अत एव, "क्रियां पृष्टस्तिकाऽऽचष्टे" इत्यैवोक्तं न तु तिङन्तेनेति । कृत्यादिरूपभावनाग आख्यातार्थत्वे मानं तु भूवादिसुत्रस्थं (१) आह्त्यैवेति बलादित्यर्थः ।
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy