SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ धारवर्थनिर्णयः। ३७ . इत्यभियुक्ताक्तेः शाब्दबोधे प्राङ्निर्दिष्टस्यैवोद्देश्यतया विवक्षिता. र्थाऽलाभात् १)। अत एव, वृद्धिशब्दस्य प्रानिर्देशो मङ्गलार्थः' इत्या. ऽऽकरोक्तं(२) सङ्गच्छते । एवमग्रेऽपि । आख्यातत्वाऽवच्छिन्ने प्रधानभावार्थप्रतिपादकत्वरूपलक्षणतात्पर्यावधारणाच लक्षणवाक्याच्छ. ब्दमर्यादया प्रकृतपदद्वयार्थाभेदस्याऽधिकस्य भानेऽपि न क्षतिः । लक्ष्यताऽवच्छेदकं च तिङन्तत्वरूपाऽऽख्यातत्वम् । “आख्यातमाख्यातेन" (पा० ग० सू०२.१।७२) इत्यादी तत्रैवाऽऽख्यातपदस्य शक्त्य. वधारणात् । 'भावकालकारकसंख्याश्चत्वारोऽर्था आख्यातस्य , तत्र भावः प्रधानम्' इति प्रकृतनिरुक्तभाष्याच्च । एतेन, तिङः प्रधान. भावार्थकत्वस्य प्रतिपादकमेव तदिति वदन्तः प्रत्युक्ताः। तच्छब्दपरामृश्य भावादिचतुष्टयस्यैकदा तिङा प्रतिपादनाऽसम्भ वाच्च। भावत्वं निष्पाद्यत्वम् ।नातःकाऽऽख्यातस्य फलविशेष्यकबो. धकतावादिमते तत्राऽप्रसक्तिः।प्रधानप्रतिपादकत्वस्यनाममात्रे, भा. घप्रतिपादकत्वस्य भुक्त्वेत्यादिनाम्न्यतिप्रसक्तत्वात्तद्वारणाय वि. शिष्टमुपात्तम् । प्राधान्य चोपस्थितत्वात् स्ववाचकप्रकृतिकप्रत्ययार्थनिरूः पितमेव । नातः 'काष्ठैः पाक' इत्यादी प्रत्ययार्थकरणनिष्ठप्रका: रतानिरूपितविशेष्यताशालिबोधजनके पाकादिनाम्न्यतिप्रसङ्गः । नवौत्सगिकैकवचनान्तभावविहिततव्याद्यन्तनानि सः तथाच तिङबोध्यार्थनिष्ठप्रकारतानिरूपितविशेष्यतातात्पर्यप्रतिपादकत्वं तत्पर्य्यवस्यति । इतराविशेषणत्वरूपं तु न तत् । पचति भवतीत्यादिवा: क्यघटकपच्याद्यक्रियायां तदसवेन पचतीत्याख्यातेऽव्याप्तः । कत्व: पूर्वकालार्थकत्वस्यनिराकरिष्यमाणत्वानोक्तक्षणस्थालश्ये: ऽतिप्रसङ्गः । “कृदभिहितो भावो द्रव्यवत् प्रकाशते” इति भा. प्येण. पाक इत्यादाविव तस्य सत्वाऽतिदेशेन साध्यत्वरूपभावत्वा. ऽभावादेव नाऽतिप्रसङ्ग इति तु न सत् । यतः साधुत्वान्याख्यायक (१) यद् भावप्रधानं तदाख्यातं भवति इति स्यात् तथाच भा. वप्रधानस्य भाव्यमित्यादेराख्यातसंज्ञायामांख्यातमाख्यातेनेति समासापत्तिरितिभावः। (२) आकरोक्तमिति वृद्धिरादैच् इति सूत्रस्थभाष्यमित्यर्थः। .
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy