________________
... स्फोटनिरूपणम् ।
४६७ ब्रह्मैवेत्यनेन, “अत्राय पुरुषः स्वयज्योतिः," "तमेव भान्तमनुभाति सवम्" "तस्य भासा सर्वमिदं विभाति" इति श्रुतिसिद्धस्त्रपरप्रकाशत्वं सूचयन् स्फुटत्यर्थोऽस्मादिति स्फोट इति यौगिकस्फोटशब्दाभिधेयत्वं सूचयति । निर्विघ्नप्रचारायान्ते मङ्गलं स्तुतिनतिरूपमाह-पूर्णात्मने इत्यादिना ॥ ७४ ॥ पिब्रह्म आदिमत्सकारणकामवाऽवसीयत इत्यनुषज्ज्यते। परिणाम्यु. पादानत्वे तस्मिन्नभ्युपगम्यमाने विकारित्वप्रसङ्गशङ्का। वस्तुतोन तत्प्रसक्तिर्विवत्तापादानतया तदेवाङ्गीकाराद्रज्ज्वादौ प्रातिभासिकभुज. ङ्गस्येवेति भावः । “अनादि ब्रह्म शाश्वतम्" इति पाठस्त्वन्यतरविशेः षणोपादनवैया पत्त्या नादरणीयः। ___ ननु नादेऽपि ब्रह्मव्यपदेशस्य प्रायशो दर्शनात पुरुषार्थानुपयो: गितदभेदज्ञानसम्पादनवैयर्थ्यमत आह-*ब्रह्मैवेति* ॥ तथाच प्रकते ब्रह्मपदस्य स्वप्रकाशरूपब्रह्यपरत्वान्नोक्तानुपपत्तिरिति भावः। "तमेव भान्तम्" इत्यस्य
"न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्नि" इति पूर्वार्द्धम् । श्रुतीत्युपलक्षणं
यदादित्यगतं तेजो जगद्भासयतेऽखिलम् । __इत्यादिस्मृतेरपि॥ *स्वपरप्रकाशकत्वमिति*॥ तत्र परप्रकाशकत्वे मानमुक्तम् । स्वप्रकाशकत्वं च स्वभिन्नाप्रकाश्यत्वे सति प्रका. श्यत्वम् स्वात्मकनित्यज्ञानविषत्वमिति यावत् । "नित्यं विज्ञानमा. नन्दं ब्रह्म" इति श्रुत्या ब्रह्मणो नित्यज्ञानानन्दस्वरूपत्वप्रतिपादनात प्रकृतश्रुतिः ।
स्वयमेवात्मनात्मानं वेत्सि त्वं पुरुषोत्तम । इति स्मृतिश्च । स्वप्रकाशत्वे च "न तद्भासयते सूर्य” इत्या. दि स्मृतिश्च मानकधितमन्यत्राऽनुसन्धेयम् ॥ *सुचयतीति । स्फोटस्वप्रकाशपदयोः पर्यायत्वं बोधयतीत्यर्थः। तथाच जा. तिस्फोटवादिमते उपाधिनिरासद्वारा शब्दब्रह्मणः स्वप्रकाशत्वरूपेण पुरुषार्थोपयोगिनि ज्ञाने व्याकरणस्योपयोग इति सिद्धम् । नादस्फोटवादिमते यथोपयोगस्तथापपोदितं प्राक् ॥ निर्विध्नेति* ॥ अप्रतिबद्धस्वग्रन्थप्रचारार्थमित्यर्थः ॥ अन्ते=