SearchBrowseAboutContactDonate
Page Preview
Page 481
Loading...
Download File
Download File
Page Text
________________ दर्पणसहिते वैयाकरणभूषणसारे अशेषफलदातारमपि सर्वेश्वरं गुरुम् ॥ श्रीमभूषण सारेण भूषये शेषभूषणम् ॥ १ ॥ भट्टोजिदीक्षितैः श्रेष्ठैर्निम्मिताः कारिकाः शुभाः ॥ कौण्डभट्टेन व्याख्याताः कारिकास्ताः सुविस्तरम् ॥ २ ॥ इति श्रीमत्पदवाक्यप्रमाणपारावारीणधुरीणरङ्गोजिभट्टाऽऽत्मज कौण्डभट्टकृते वैयाकरणभूषणसारे स्फोटवादः ॥ समाप्तोऽयं ग्रन्थश्च ॥ ૮ ग्रन्थावसाने ॥ *मङ्गलमिति । नत्यात्मकं तदित्यर्थः । “मङ्गला - दीनि मङ्गलान्तानि मङ्गलमध्यानि व शास्त्राणि प्रथन्ते” इति भाष्यकारोक्त श्रुतेरिति भावः । पूर्णत्वमखण्डानन्दत्वमप्रतिहतेच्छत्वं वा तेन रूपेण तन्नतिश्च स्वयिग्रन्थप्रचारेच्छाविषयसिद्धय इति बोध्यम् । ॥ ७४ ॥ ज्ञात्वा श्रीफणिवाक्यजालमतुलं नैयायिकोक्तीरपि मीमांसानयमाकलय्य च मया सम्यक्कृते दर्पणे ॥ अस्मिन् भूषणसारतां बुधजनः सोत्कण्ठमालोकतां यन्निश्वासमलीमसो न मुकुरस्तत्त्वार्थबोधक्षमः ॥ १ ॥ आसीत् कूर्मगिरौ धरासुरवरः श्रीवल्लभः कोविदो वेदान्तेषु विनोद (१) भृत्तरिति ख्याताऽस्ति यनिर्मितिः ॥ तत्सूनुर्हरिवल्लभः समकरोत् सद्युतिमण्युज्ज्वलं श्रीमद्भूषणसारदर्पणमिमम्मादाय विद्यावताम् ॥ २ ॥ उत्प्रेक्षितार्थो हि न मोदहेतवेऽभ्यस्तो भृशं सोऽपि बुधां तथैव ॥ इत्याकलय्योभयमत्र युक्तिप्रमाणसिद्धं समुदाहृतं मया ॥ ३ ॥ सर्वोऽप्यर्थो बुधैः स्पृष्टो यद्यपीह तथापि मे ॥ सत्सन्दर्भाशवितता ममता केन वार्य्यते ॥ ४ ॥ इति श्रीमत्कूर्माचलाभिजनोत्प्रभातीयोपनामक श्रीवल्लभाऽऽत्मजहरिवल्लभविरचितं भूषणसारदर्पणे स्फोटवादः समाप्तः ॥ (१) विनोदमञ्जरिरिति पाठः ।
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy