________________
दर्पणसहिते वैयाकरणभूषणसारे शस्त्वऽविद्याविजृम्भमणमात्रम् | उक्तञ्च वाक्यपदीये--
शास्त्रेषु प्रक्रियाभेदैरविद्यैवोपवर्ण्यते । समारम्भस्तु(१)भावानामनादि ब्रह्म शाश्वतम् ॥ इति ॥
णो जगदुपादानत्वे विकारित्वाऽऽपत्तिः । 'जगदेतद्विवर्त्तते' इति वद. ता मूलकृतैव समाहितत्वात् । तथाच व्यावहारिकप्रातिभासिकपदार्थनिरासेन श्रुत्या ब्रह्मैव परिशेषीक्रियते इति प्रागुक्त एवाऽर्थः ।
ननु नानात्वस्य सर्वथैव मिथ्यात्वे कथं स प्रत्ययो लोकानामत आह-*प्रक्रियांशस्त्विति* ॥ प्रकृतिप्रत्ययपञ्चकोशादिव्यवहारांश. स्त्वित्यर्थः । *अविद्येति ॥ मलिनसत्त्वाज्ञानविलास एवेत्यर्थः। तथाच ब्रह्माऽतिरिक्तत्वेनाऽसतानामपि तेषां पार्थक्येन प्रतीतिरधि. ष्ठानाऽज्ञानकृतैवेति, न यावदधिष्ठानाऽज्ञानं तावत् तन्निवृत्तिरिति भावः । ननु तादृशब्रह्मज्ञाने कथं शास्त्राणामुपयोगोऽत आह*प्रक्रियांश इति* ॥ प्रकृतिप्रत्ययादिव्युत्पादनं त्वित्त्यर्थः ॥ अवि. धेति* ॥ तथाच पञ्चकोशादिन्यायेन शास्त्राणामुपयोगो, न तु तज्ज्ञाने साक्षादुपयोग इति भावः ॥ *अविद्यैवोपवर्ण्यते इति* ॥ वा. क्यपदीयाऽनन्तरम्
उपाया: शिक्ष्यमाणानां बालामुपलालनाः।
असत्ये वर्त्मनि स्थित्वा ततः सत्यं समीहते ॥ इति श्लोकः । “समारम्भस्तु भावानामित्यस्व" पूर्वार्द्धन्तु
घटादिदर्शनाल्लोकः परिछिन्नोऽवसीयते ॥ इति ॥ तदर्थस्तु यथा घटदिकं दृष्ट्वा लोको विश्वप्रपञ्चः परिच्छिन्नः कि. श्चिनिष्ठकारणतानिरूपककार्यतावत्वेनाऽनुमीयते, एवं भावानामा. काशादीनां, समारम्भादितिसम्यगारम्भो जननं यस्मात् । भाव. प्रधानश्च निर्देशः तदुत्पत्तिहेतुत्वादित्यर्थः । भावोपादानत्वादिति यावत् । तादात्म्येन वा हेतुः ॥ *समारम्भादिति* ॥शाश्वतं नित्यमा
(१) भावाना=दृश्यमानघटादिपदार्थानाम् ।समारम्भः उत्पत्ति रित्यर्थः।