SearchBrowseAboutContactDonate
Page Preview
Page 478
Loading...
Download File
Download File
Page Text
________________ ४६५ . स्फोटनिरूपणम् । तमेव ससांशं स्पष्टयतिइत्थं निष्कृष्यमाणं यच्छब्दतत्त्वं निरञ्जनम् ॥ ब्रह्मैवेत्यक्षरं प्राहुस्तस्मै पूर्णात्मने नमः ॥ ७४ ॥ ' अयं भावः । “नामरूपे व्याकरवाणि" इति श्रुतिसिद्धा द्वयी सृष्टिः। तत्र रूपस्येव नान्नोऽपि तदेव तत्त्वम् । प्रक्रियां । यद्यप्यविशेषेण वाक्यविषयेऽखण्डवाध्यतजातिरूपस्फोटद्वय मुक्तं, तथापि नादात्मकस्फोटकल्पे शास्त्रस्य पुरुषार्थे परम्परयो. पयोगित्वमन्तिमकल्पे तु साक्षादेवेति तस्यैव मुख्यत्वमित्याशयेन मूलमवतारयति *तमेवेति* I "अयमात्मा" "तत्सत्यम्" इत्यादि. श्रुतिसिद्धं यत्सत्यं तत्र सा जातिरित्यनेनोक्तमेवेत्यर्थः । मूले, *इत्थमिति* । पूर्वोक्तप्रकारेण अध्यस्तवाचकत्वेभ्यः प्रकृत्यादिभ्यः. पृथक्रियमाणम् । अत एव निरञ्जनम्-उपाधिविनिर्मुक्तम् । अत एवाक्षरमविनाशि। __“यस्तु सर्वेषु भूतेषु नश्यत्सु न विनश्यति ।" ... इति स्मृतेः । सोपाधिकस्यैव विनाशप्रतियोगित्वात् । शब्दतत्त्वं, शब्दपदं रूपस्याप्युपलक्षणम् । तेन, नामरूपोपादानं यत्तद् ब्रह्मैवेति विशेषणसङ्गतैवकारेण ब्रह्मतादात्म्याऽभावरूपे विशेषणाऽयोगव्यव. च्छेदे शब्दतत्त्वरूपान्वायतावच्छेदकव्यापकत्वं बोध्यते ॥ प्राहु-प्रकर्षेण कथयन्ति । ब्रह्माऽभेदेन जानन्तीति यावदिति तदर्थः । तत्र शब्दोपादानत्वस्य तन्त्रान्तरे गगनादी प्रसिद्धः कथं ब्रह्मणस्तदुपा. दानत्वमित्याशङ्कायामाह-*अयम्भाव इत्यादि * ॥ *नामरूपति* ॥ "अनेन जीवनात्मनानुप्रविश्य नामरूपे व्याकरवाणि" इति सिद्धेत्यर्थः। *द्वयीति* ॥ नामरूपात्मकन्यवयवसमूहरूपेत्यर्थः ॥ *तति* ॥ सृ. ष्टिद्वयमध्ये ।। *रूपस्येवेति । आकाशाद्यात्मकार्थस्येवेत्यर्थः॥ *ना. म्न इति ॥ तद्वाचकशब्दस्यापीत्यर्थः ॥ तदेव-ब्रह्मैव ॥ तत्त्वमुपा. दानमित्मर्थः । "तस्मादेतस्माद्वा आत्मन" इत्यादिश्रुतेः । शब्दतन्मा. त्राकाशोपादानत्ये पर्यवसानाद्वयोरप्युपादानं ब्रह्मैव । अत एव तयोः परस्परमभेदसिद्धिः। स्वोपादानब्रह्माभिन्नत्वात् । न च ब्रह्मा
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy