________________
४६४ दर्पणसहिते वैयाकरभूषणसारे त्यर्थः (१) इति । "ब्रह्मतत्वमेव शन्दस्वरूपतया भाति"(२) इति च ।
कथं तर्हि, ब्रह्मदर्शने च गोत्वादिजातेरप्यसत्वादनित्यत्वम् । “आत्मरेदं सर्वम्" इति श्रुतिवचनादिति कैयटः सङ्गच्छताम् । अविद्या आविद्यको धर्मविशेषो वेति पक्षान्तरमादायेति द्रष्टव्यम् ।। ७३ ॥
*शब्दस्वरूपतयेति । श्रुत्यात्मकशब्दरूपतयेत्यर्थः । “रे ब्रह्मणी वेदितव्ये" इति श्रुतेः। ___ अयमाशयः । "तस्मादेतस्माद्वा आत्मन आकाशः सम्भूत" इत्यादितैत्तिरीयकश्रुतौ ब्रह्मणो जगदुपादानत्वश्रवणादुपादेयस्य चो. पादानाभिन्नत्वस्य लोकप्रसिद्धत्वान्नामार्थयोरपि स्वाभिन्नोपादानाभिन्नत्वे सुस्थे पृथक्प्रतीयमानजगतो, “नेह नानास्ति" इति श्रुत्या बाधे दृढे, बाधितार्थप्रतीतेरधिष्ठानसत्तैकनियामकत्वेनावशिष्यमाण. ब्रह्मणः सद्रूपस्य साक्षाज्ञातुमशक्यतयोपलक्षणीभूतरूपनामनिरूप. णद्वारा तज्ज्ञानाय शास्त्रस्योपयोग इति । *कथमिति* । सङ्गच्छता. मित्यनेनान्वितम् । पूर्वीपरविरोधादिति भावः। मिथ्याज्ञानरूपाया. स्तजन्यसंस्काररूपाया जातित्वासम्भवादाह *आविद्यक इति । अविद्याकल्पित इत्यर्थः । *धर्मविशेष इति । अत्र वृत्तिवारणाय, *धर्मेति । तद्व्यक्तित्वादिवारणाय, *विशेषेति । तथाच मतभेदेनाऽर्थद्वयस्याप्याकरस्थितत्वान्न पूर्वापरविरोध इति भावः ।
घस्तुतस्तु गवाद्यपाध्यवच्छिन्नसत्तात्वमेव गोत्वादिव्यवहारनि. यामकमद्वैतदर्शने च गवादेरवच्छेदकस्याभावान्न सत्ताया विशिष्टसत्तात्वं, तदानीं निर्द्धर्मत्वेनैवावस्थानादित्यर्थपरतयाऽपि विरोधः सुपरिहर इति बोध्यम् ॥ ७३ ॥ ___ (१) असत्यति । अयं कैयटग्रन्थः" द्रव्यं नित्यम्" इति पस्पशा. ह्निकस्थभाष्यव्याख्यानरूपः ।
(२) अयं च "चन्द्रतारकावत् प्रतिमण्डितो वेदराशि" इति प्र. त्याहाराह्निकभाष्यव्याख्यानरूपण