SearchBrowseAboutContactDonate
Page Preview
Page 476
Loading...
Download File
Download File
Page Text
________________ स्फोटनिरूपणम् । ४६३ रूपव्यायव्यअकस्य शब्दस्य ध्वनिरिति' व्यवहारः कृतः" इति ॥ ७२ ॥ ननु का सा जातिस्तत्राह सत्यासत्यौ तु यौ भागौ प्रतिभावं व्यवस्थितौ ॥७३॥ · सत्यं यत्तत्र सा जातिरसत्या व्यक्तयो मताः ॥ प्रतिभावं प्रतिपदार्थम् । सत्यांशो जातिः, असत्या व्यक्त. यः । तचव्यक्तिविशिष्टं ब्रह्मैव(१) जातिरिति भावः । उक्तञ्च कैयटेन "असत्योपाध्यवच्छिन्नं ब्रह्मतत्वं द्रव्यशब्दवाच्यमि. "इदमुत्तममतिशयिनि व्यङ्गथे वाच्याद् ध्वनिर्बुधैः कथितः" । इति वृत्तिव्याख्यावसर इति शेषः । *स्फोटव्यङ्गयेति । स्फोटरूपं यद् व्यङ्गयं, तव्यञ्जकवर्णात्मकशब्दस्येत्यर्थः ॥ ७२ ॥ . ___ नन्वेतावता प्रबन्धेन पदत्वादेर्जातित्वस्य तद्वाचकत्वस्य च व्यवस्थापनमफलं, पुरुषार्थाऽनुयोगित्वादित्याशङ्कय समाधानपर. तया मूलमवतारयति *ननु का सेति* । सा वाचकत्वेनाभिमता जातिः केति योजना । *सत्यांश इति । सत्यत्वं कालत्रयाबाध्यत्वं, तद्विपरीतमसत्यत्वम् । पर्यावसितार्थमाह तव्यक्तीति । तदः व्यक्त्युपलक्षितीमत्यर्थः। परमार्थब्रह्मणा व्यक्तीनां वैशिष्टयासम्भ. वात् । अत एव जगत्कर्तृत्वादीनां तदुपलक्षणत्वमामनन्तीति बोध्यम्। *जातिरिति* । तव्यवहारविषय इत्यर्थः। *असत्योपाधी. ति । व्यक्तीनामुपाधित्वं च, वस्तुत एकस्या अपि नानाप्रती. तिजनकत्वं तदवच्छिन्नं तदुपलक्षितमित्यर्थः। *द्रव्यशद्वति । गवादिशब्देत्यर्थः । गुणगतजातेरनङ्गीकारादथवा द्रव्यात्मको यश्श. ब्दस्तद्वाच्यमित्यर्थः । मीमांसकैः शब्दस्य द्रव्यत्वोपगमात् । (१) आधेयतासम्बन्धेन तत्तद्व्वक्त्युपहितं ब्रह्मैकजातिरूपमिति तस्यानित्यत्वं नानुपपन्नमिति भावः।.. .
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy