________________
दर्पणसहिते वैयाकरणभूषणसारे
ग्राहकमानसिद्धत्वादिति कैश्चिद् व्यक्तयो ध्वनय एव ध्वनिवयोर्भेदाभावादित्यभ्युपेयन्ते इति शेषार्थः ।
उक्तं हि काव्यप्रकाशे । “बुधैर्वैयाकरणैः प्रधानीभूतस्फोट -
૪૬૨
त्याख्यविलक्षणसम्बन्धेन वृत्तित्वस्येत्यर्थः ।
ननु जातेः समवेतत्वस्यैव सार्वत्रिकतया कथमेतस्याः पर्य्याप्तत्वमत आह-* धर्मिग्राहकेति * ॥ धर्मवती जातिस्तद्ग्राहकं मानं पदत्वस्य वा वाक्यत्वस्य वाचकत्वाऽनुपपत्तिस्तत्सिद्धत्वादित्यर्थः ।
प्रत्येकवर्णविश्रान्तजातेर्वाचकत्वस्योक्तदूषणकवलितत्वेनासम्भवाद्वाचकत्वानुपपत्त्या कल्प्यमाना पदत्वादिजातिर्यदि पुनः प्रत्येकं वि श्रान्ता स्यात् तदा तत्सिद्धिरेव न स्यात् वाचकत्वाऽनुपपत्तेरपरि हारादतस्तत्साधकमेवं तत्पय्र्याप्तत्वसाधकमेवं चानेकव्यक्त्या भव्ययेत्यस्यानेक व्यक्ति पर्याप्तेत्यर्थ इति भावः ।
वस्तुतस्तु घटादिप्रत्येकव्यक्त्यैक्ये घट इति सर्वसिद्धप्रतीत्या व्यवहारेण च सिद्धयतु घटत्वादेः प्रत्येकमात्रवृत्तित्वम् । न ह्येकवर्णे घटपदादिव्यवहारो, येन पदत्वादेः प्रत्येकवृत्तिता स्यात् किन्तु पदशब्दः पदं न प्रकार इति वैपरीत्यमिति तादृशजातेः पय्र्याप्तत्वमावश्यकम् । पदत्वं न पर्य्याप्तं जातित्वादित्यनुमानं त्वप्रयोजकमनुकूलतक्कभावादिति विभावनीयम् ।
इदं पुनरिहावधेयम् । अनेकव्यक्त्यभिव्यङ्गयेत्यस्यानुपूर्व्यवच्छि वर्णाभिव्यङ्गयेत्यर्थः । नातः सरो रसं इत्यादौ अर्थभेदबोधाऽनुपपत्तिः । एवञ्च पूर्वोक्तार्थस्यैवाऽयं प्रपञ्चः । आनुपूर्वीवर्णयोर्विशेषणविशेष्यभावव्यत्यासः परं व्यतिरिच्यते । अत एवाऽग्रिमग्रन्थसङ्गतिरिति । व्यज्यतेऽनयेति व्युत्पत्या व्यक्तिपदार्थे वर्ण इत्यभि• प्रेत्याह *ध्वनिवर्णयोरिति । वर्णानां ध्वनिनैयत्यादभेदोपचारोऽत एव पस्पशायां "अथ गौरित्यत्र कः शब्द" इति प्रश्ने “लोकेऽर्थबो धकत्वेन गृहीतो ध्वनिवर्णात्मकः समूह" इत्यर्थकम् | "अथवा प्रतीतपदार्थको ध्वनिः शब्द" इत्युक्तमिति भावः । शेषार्थ इति* । प्रकृतकारिकोत्तरार्द्धार्थ इत्यर्थः । वर्णेषु ध्वनिव्यवहारे सम्मतिमाह *उक्तं हीति* | *काव्यप्रकाश इति ।