________________
स्फोटनिरूपणम् ।
४६१ ननु जाते. प्रत्येक वर्णेष्वपि सत्वात् प्रत्येकादर्थबोधापतिः स्यादित्यत आहअनेकव्यक्त्यभिव्यङ्गया जातिः स्फोट इति स्मता॥७२॥ कैश्चित व्यक्तय एवास्या ध्वनित्वेन प्रकाल्पताः ॥ • अनकाभिर्वर्णव्यक्तिभिरभिव्यक्तव जातिः स्फोट इति स्मृ. ता । योगार्थतया बोधिकेति यावत् । एतेन स्फोटस्य नित्यत्वासर्वदार्थबोधापत्तिरित्यपास्तम् । . ___ अयं भावः । यद्यपि वर्णस्फोटपक्षे उक्तदोषोऽस्ति । तथापि पदवाक्यपक्षयोन(१), तत्र तस्या व्यासज्ज्यवृत्तित्वस्य धर्मि
च यथा वर्णानां नित्यैकत्वमते विजातीयवायुताल्वाद्यभिघातसत्त्वे ताल्वादिना भेदप्रतीतिस्तद्वदित्यर्थः॥ ७१ ॥
वर्णजातिस्फोटमभिप्रेत्य शङ्कते, सारे-*नन्विति* ॥ जाते. रिति* ॥ अर्थबोधकजातरित्यर्थः ॥ *प्रत्यकेति* ॥ पदान्तर्गततत्त. द्वर्णोम्वत्यर्थः । एवमग्रेऽपि ॥ *अर्थबोधापत्तिरिति* ॥ तदभिव्यञ्ज. कवर्णसत्वादिति भावः ॥ *योगार्थतयति* ॥ स्फुटत्यर्थोऽस्मादिति वक्ष्यमाणावयवव्युत्पत्येत्यर्थः ॥ सर्वदा पदाश्रवणेऽपि ॥ *अपास्त. मिति* ॥ जातेः सनातनत्वेऽप्युक्तस्थले व्यञ्जकासमवधानात्तदभि. व्यक्त्यभावेन बोधस्यापादयितुमशक्यत्वादिति भावः ।।
मनु वर्णजातिस्फोटपक्षे पदघटकयावद्वर्णगतजातीनामेवार्थबोध. कत्वमुपगन्तव्यम् ॥ तत्र चान्यवर्णगतजातेरन्यवर्णानभिव्यङ्गयत्वातत्तद्वर्ण एवाभिव्यञ्जको वाच्यः। तथा चोक्तदोषस्तदवस्थ एवे. त्यत आह-*अयम्भाव इति* ॥ *उक्तदोष इति* ॥ तथाच दुधः त्वात् स पक्षी नाश्रयणीय इति भावः॥ *तत्रेति ॥ पदे वाक्ये च ॥ तस्याः पदत्वादिजातेः॥ *व्यासज्यवृत्तित्वस्यति* ॥ पर्या. . (१) कथितदोष इत्यनुकृष्यते । तत्र व्यासज्यवृत्तित्वस्य पदादि. घटकयावद्वर्णसमुदायवृत्तित्वस्य वर्णस्फोटपक्षे तु नैवं वक्तुं शक्यम्। प्रत्येकावृत्तस्तदनतिरिक्ततावद्वर्णसमुदायवृत्तित्वस्यासम्भवादिति ।