________________
४० दर्पणसहिते वैयाकरणभूषणसारे
(१)। तस्मात् सा जातिरेव वाचिका, तादात्म्येनावच्छेदिका चेति।
ननु सरो रस इत्यादौ तयोर्जात्योः सत्वादर्थबोधभेदो न स्यादित्यत आह-औपाधिको वेति ॥ वा त्वर्थे उपाधिरानुपूर्वी, सैव जातिविशेषाभिव्याञ्जिकेति भेदः करणीभूतज्ञानस्येति ना. तिप्रसङ्ग इति भावः। उपाधिप्रयुक्तज्ञानवैलक्षण्ये दृष्टान्तमाह-व. पोनामिति ॥ ७१ ॥
स्थितित्वेन हेतुत्वमन्यथासिद्धिरिति भावः ॥ *अन्यथासिद्ध्यापत्ते. रिति* ॥ न च सेष्टा, प्रत्यक्षाऽऽदिप्रमाणविरोधादिति भावः।
ननु जातेः शक्यत्वे जातित्वं शक्यतावच्छेदकं वाच्यम् । तस्य च तदितरावृत्तित्वविशिष्टसकलतवृत्तित्वरूपतया तत्त्वाऽऽसम्भ. बो गौरवादत आह-*तादात्म्येनेति* ॥ अभेदेनेत्यर्थः। तथाच नोतदोष इति भावः । एतत्तत्त्वमभिहितं प्राक् ॥ *जात्योरिति* ॥ त. योः पदयो रेफाकारसकारविसर्गघटितत्वाविशेषाद्रसत्वाविशिष्टो. पस्थापकतावच्छेदकसरस्त्वावशिष्टोपस्थापकतावच्छेदकजात्यारेकतरस्या एव सत्ताया विनिगमकाभावात्ततो विलक्षणार्थबोधानुप. चिरित्यर्थः । वाशब्दस्य पक्षान्तरपरत्वभ्रमं निराकारोति-*वा त्वर्थ इति* ॥ अवधारणे इत्यर्थः ॥ *भेद इति ॥ तथाच तत्र वर्णतौल्ये. ऽप्यानुपूर्वीचलक्षण्यन रसत्वविशिष्टोपस्थापकतावच्छेदकजातेर्निरुकाव्यवहितोत्तरत्वसम्बन्धेन र-विशिष्टसत्त्वादिरूपानुपूर्ध्या एव व्य. अकतया तदभावेन न सरः-पदासत्वविशिष्टबोधापत्तिरेवमप्यत्रा. पीति भावः । मृले तारमन्दवदित्यत्र तारमन्दशब्दो धर्मपरौ। तथा
(१) अन्यथासिवापत्तेरिति । संयोगविशेषविशिष्टमृदादिभिरेव 'घट' इत्याधनुगतप्रतीतेर्दण्डादिकार्यतावच्छेदकत्वस्य च निर्वाहाद् घटवादिजातिरपि न सिध्येत् । एवं घटादिरवयव्यपि न सिंध्येत् । सयोगविशेषविशिष्टमृदादिभिरेव 'घट, इत्यादिप्रतीत्युपपत्तेरिति भावः।