________________
४५४ . दर्पणसहिते वैयाकरणभूषणसारे तस्य च वर्णोत्पत्तिस्थलेऽपि सत्त्वात्तवैव प्रतिवध्यप्रतिबन्धकभावकल्पना निष्पमाणिका स्यादिति विपरीतगौरवं ।
एवं परस्परविरोधादुदात्तत्वानुदात्तत्वहस्वत्वदीर्घत्वादिकमपि न वर्णनिष्ठं युक्तमिति तेषामभिप्रायः । एवञ्चोत्पत्यादिनतीतीनां तत्पमात्वस्य च निर्वाहः परेषामपि समान इति प्रतिबन्धै. वोत्तरमिति भावः ॥ ७० ॥
तथाच पार्थक्येनानुभूयमानायाः प्रतीतेर्जिह्वाभिघातजकण्ठवायुसं. योगातोश्च सत्त्वान्न वर्णाभिव्यक्तिस्थले धनन्यनैयत्यमित्युक्तस. म्बन्धविषयकप्रतीतिनिराबाधेति भावः॥ *तवैवेति* ॥ वर्णस्थले ध्वन्यसत्त्ववादिन एवेत्यर्थः ॥ *विपरीतगौरवमिति* ॥ स्वकारण. बलाजायमाने ध्वनौ वर्णोत्पादकसामग्याः प्रतिबन्धकत्वकल्पना ध्वन्यकल्पनाप्रयुक्तलाघवापेक्षया विपरीतगौरवग्रस्तेति यावत् ॥ वर्णनित्यतावादिनां मीमांसकानामित्यर्थः । *एवञ्चति ॥ उत्पत्या. दीनां वर्णाऽवृत्तित्व इत्यर्थः ॥ *प्रतिबन्धैवेति* ॥ पराऽभिमतसमाधेयमुत्तरं प्रतिबन्दिस्तयेत्यर्थः । तथाच तत्र मीमांसकैरुत्पत्त्यादिप्र. तीतेः प्रमात् यः समाधिराश्रितः स एवास्माभिरप्यनुसतव्य इति भावः। तथा चाऽखण्डवाक्यस्फोटस्वीकारे न किञ्चिद् बाधकमि. ति फलितम् ।
नन्वेतत्कल्पे पदानामसत्वेन मीमांसकसिद्धान्तविरोधः । तथा. हि। 'व्रीहिभिर्यजत' इत्यत्र यागेन द्रव्यमात्राक्षेपे वीहिश्रुतिनियमा. र्था व्रीहिभिरेव नान्यैरिति । तत्र व्राह्यभावे नित्यकर्मणः प्रारब्धका. म्यकर्मणश्च लोपो मा भूदिति प्रतिनिधिरुपादीयते । बिहिन्वस्य शक्त्युपलक्षणत्वेन प्रतिनिधेरपि श्रौतत्वात् । भवन्मते तत्र प्रतिनि. ध्युपादाने तद्वाक्याखण्डार्थाऽननुष्ठानान्नित्यादेविलोपापत्तिः। नी. घारकरणकक्रियाया अन्यत्वात् । 'क्रिया न प्रतिनिधीयते, द्रव्यं तु प्र. तिनिधीयते एव' इति परिभाषाया उच्छेदश्च । एवं "श्वेतं छागमाल भेत" इत्यत्र क्रियायाश्छागद्रव्येण सम्बन्धः श्रौता, द्वितीयाश्रुत्या तस्य साक्षात्प्रतिपादनात् । श्वेतगुणस्य तु वाक्यीयः सः । तत्सा.