________________
दर्पणसहिते वैयाकरणभूषणसारे
तं देवताधिकरणे।
नचैवं वायुसंयोग एव वाचकोऽपि किं न स्यादिति वाच्यम् । प्रत्यक्षोपलभ्यमानककारादेरेव वाचकत्वस्यानुभवसिद्धत्वात् । तथाच वाचकत्वान्यथानुपपत्त्या तदेवेदं पदं, तदेवेदं वाक्यं सोऽयं गकार इति प्रतीत्या च स्फोटोऽखण्डः सिद्ध्यति ।
ति* ॥ एतदनुरोधेनैवादायेति पदमारोपपरतया व्याख्यातम् । मतान्तरन्तु वक्ष्यते ॥
वायुसंयोगोऽपीत्यपिरेवाऽर्थे । कण्ठताल्वाद्यभिघातजवायुसंयो. ग एवेत्यर्थः । समवायस्यानारोपितस्य वा जकतावच्छदकत्वे लाघः वात् । तथाहि संयोगस्यैव काद्यात्मकत्वमस्त्वत्यर्थः ॥ समाधत्ते*प्रत्यक्षेति* ॥ अयमाशयः । कादिवर्णानामुक्तसंयोगात्मकत्वेऽती. न्द्रियतापत्तिः । न च सेष्टाऽनुभवविरोधात् । नचोक्तकत्वम्यातीन्द्रि. यधर्मत्वेन कथं साक्षात्कारविषयत्वामति वाच्यम् । सुराभिचन्दन मिति प्रतीतौ चक्षुरयोग्यस्यापि सौरभादश्चाक्षुषविषयत्ववत्तस्यापि श्रोत्रग्राह्यत्वसम्भवात । विषयबाधेन परं स्फोटांऽशे कत्वप्रतीतिभ्रातित्वमिति । . ___ अन्ये तु-कादिप्रतीतिर्यदि स्फोटांशे कत्वादिकं समवायेनावगा. हेत तदा तस्याऽभ्रान्तत्वसम्भावना, किन्तु स्वाश्रयाऽभिव्यङ्गयत्व. सम्बन्धेनैव तदंशे वैजात्यम् । न च स्वाश्रयाऽभिव्यङ्गयत्वस्य सम्ब. न्धत्वे प्रमाणाभावः । कादिप्रतीतेरेव मानत्वात् । विशिष्टप्रतीतिनियामकविशेषो हि सम्बन्धः। अत एव, 'लोहितः स्फटिक' इति बु. द्धः स्वाश्रयसंयोगस्य सम्बन्धतामामनन्ति । न च समवायविषयैव सा भ्रान्तिः । यथाकथञ्चित प्रतीतेः प्रमात्वोपपत्तौ भ्रमत्वकल्पना. या अन्याय्यत्वात् अधिकमग्रे वक्ष्यत इत्याहुः। ___ उपसंहरति-*तथाचेति* ॥ *वाचकत्वाऽनुपपत्येति* ॥ पदवा. क्ययोर्वर्णसमूहरूपत्वे उक्तरीत्या वर्णानां युगपदवस्थानासम्मवेन घाचकत्वग्रहाऽनुपपत्येत्यर्थः। वर्णानामनित्यत्वे प्रत्यभिज्ञाऽनुपपत्तिः साऽप्यस्मन्नये नाऽस्तीत्याह-*तदेवेदमित्यादि* ॥ तत्व्यक्त्यमे